दशमो नयुखः । १६७ तण्डुलम्, 'चैत्रेग पच्यते तण्डुल' इत्यादावव्यवस्थापतिवारणाय च कर्तृकर्मणी वाच्ये । लादेशतिवादिभिः कर्तृकर्ममयाऽनभिधानस्य द्वितीयानृतीयानियामकत्वात् । लः कर्मणि च भावे चाककन्यः तानावात्मनेपदम्। 'शेपत्कर्तरि परस्मै- पदम्। तिङस्त्रीणि श्रीणि प्रथममध्यमोत्तमाः ‘तान्येकवचन द्विवचनबहुवचनान्ये. करा: ये कयाद्विवचनैकवचने ‘बहुषु बहुवचनम् इत्येतेषां सूत्राणां वाक्येक वाक्यतया तश्रार्थलाभात् । कृतित्वजोतेर्वाच्यतावच्छेदकतया लघवानुरोधा । एवं लडादेशशानचोऽपि आदेशिस्मरणद्वारा कृत्यभिधायकत्वमेव । कर्तृकर्मणोस्तु निरूढलक्षणा । न च कर्तरि ऋदिति स्मृतिविरोधः, तस्या एवुलादिविषयत्वस्य वयाऽपि वाच्यत्वात् । अन्यथा ‘पच्यमान इति कर्मणि शानचोऽनुपपनैः । जङ्गम्य सानाधिकरणं तु निरूढलाक्षणिक भिप्रायं व्याख्येयम् । ‘कार इत्यादिण्वुलादीनां चन्नित्यादिशतृकृतां च (१)कतों वाच्यः । न च तत्र लाघवात्कृतिवांच्या । लाघवस्य स्मृतितो दुर्बलत्वात् , स्मृतेरन्यथाव्याख्यानानुपपश्च । लत्वादिविशेषाणां । वर्तमानत्वादौ शक्तिः । तथा हि-'वर्तमाने लट् । 'परोक्षे लिः । भुतानद्यतन परोक्ष इत्यर्थः । ‘अनद्यतने लु' । भविष्यत्यनद्यतन इत्यर्थः। 'लुट् शेषे च। क्रियाथयां झियायां शुद्धे भविष्यति चेत्यर्थः । 'लिथे लेट’ । 'लोट् च भवतु । 'अनद्यतने लङ । भूतानद्यतनपरोक्षे लङ । अभवत् । “विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु लिङ् । प्रवर्तनायां लिइ इत्यर्थः । यजेत। 'लु'। अद्यतनानद्यतनपरोक्षापरोचे साधारणे भूत इत्यर्थः । अभूत्। 'हेतमतो लिङ', 'लिइनिमित्ते लड्डू क्रियाविपत्त' । अमवि. यत् । अनुप्रयोगादौ 'यजति स्म युधिष्ठिर इत्यादौ तु लक्षणा। एवं क्त्वाणमुल्तानादीनां धातुसम्बन्धाधिकारविहितसामान्यशक्त्या क्रियार्थत्वं विशेषशक्त्या उत्तरकालत्वादिवाच्यम् । धातूनां फले फलव्यापारयोर्वा शक्तिः । पचती'. त्यादौ विछित्तिवदनुकूळव्यापारयोर्वोधात् । अनुकूलत्वं च संसर्गलभ्यम् । एवं यजतेर्दैव्ये त्यागे देवतायामुद्देश्ये च शकिचतुष्टयम् । देवताया उद्देश्ये द्रज्यस्य त्यागे विशेषणत्वं व्युत्पत्तिलभ्यम् । उद्देश्यत्यागयोस्तु समप्राधान्यम् । एवं जुहोतेरधिका प्रक्षेपे शकिरिति पञ्च शक्तयः । उद्देश्यत्यागप्रक्षेपणां समप्राधान्यम् । एवं ददातेः स्वत्वे ध्वंसे परस्मिन् स्वत्वे उत्पत्ती व्यापारे च शकिरिति षट् शक्तयः । स्वत्वध्वंसपरस्त्वोत्पादनयोः प्राधान्यम् । एवमन्यदप्यूद्यम् । इमानि च फलानि । धातोः फळे शक्तिव्यपार आख्या- तार्थ इति मण्डनः। अव्ययतद्धिताना ‘पचतितरां पचतिकल्पमित्यादीनाम् अति. शयत्वेषदसमासत्यादौ शक्तिः । नञः संसर्गाभावाऽन्योन्याभावयोः शक्तिः । अन्वयिता. वच्छेदकमेवाऽभावप्रतियोगितावच्छेदकतयाऽन्वेति, व्युत्पत्तिबलात् । 'भूतले घटो नास्ति' ‘वटो न पट इत्यादौ तथैव बोधात् । बोधव्यवस्थायां च सप्तम्यन्तपदसम: भिव्याहारस्यात्यन्ताभावबोधे समानविभक्तिकत्वस्य चाऽन्योन्याभावबोधे कारणत्वम् । ( १ ) 'पचन्नित्यादिशतृकृतां चेति ख-पुस्तके नास्ति । :
पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/२१६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति