पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

! ११ ] दशानां गुणानां सौदाहरण निरूपणं कृतम् । पञ्चमो मयूखः सर्वेषां विपुलतमः । अत्र विंशत्यधिकशतेन इलोकैः शब्दार्थालङ्काराणां लक्षणभेदोदाहरणानि सुस्पष्टं सुशब्दं च प्रपञ्चितानि । षष्ठे मयूखे रसस्य रीतीनां वृत्तीनां च विचारः संक्षेपातिशयेन कृतः । सप्तमे ध्वनिनिरूपणाख्ये मयूखे वृत्तिभेदत्रयाद् व्यञ्जनामादाय सलक्षणभेदो- दाहरणं सा संक्षेपत उपदर्शिता । तथैवाष्टमे गुणीभूतव्यङ्गयानां निरूपणं कृतम् । नवमे दशमे च मयूखयोः लक्षणाभिधे लक्षणभेदाभ्यामभिहिते । विपुलप्रचारतया चन्द्रालस्य टीका अपि विद्वद्भिरनेकैर्विरचिताः । तासु काश्चित् प्रथिततमा अत्र विनिर्दिश्यन्ते ।। | १. शरदागमः-अयं चन्द्रालोकस्य टीकारूपो ग्रन्थः प्रद्योतनभट्टेन विरचितः । बलभद्र मिश्रतनयः प्रद्योतनभो बुन्देलवंशावतंसस्य महाराजवीरभद्रदेवस्य सभा- पण्डितो बभूव । अयं महाराजः कन्दर्पचूडामणिनामकं कामशास्त्रीय ग्रन्थं विंशत्य- धिके षोडशशतके (१६२०) वैक्रमे लिखितवान् । शरदागमप्रणयनसमयः षड्वंश- त्यधिकषोडशब्दो वैक्रमः । इयमतिसंक्षिप्ता टीका समूलसंस्कारं सभूमिकादिकपरिष्कार च नीता प्राकाश्यमस्मत्सुहृद्भिः पण्डितश्रीनारायणशास्त्रिभिः । अतोऽस्य विस्तर- स्तत्रैवावलोकनीयः ।। | २. रमा-इयं टीका वैद्यनाथपायगुण्ड इत्येतेन रचिता निर्णयसागरयन्त्रालये मुद्रिता च । उदाहरणचन्द्रिकादिग्रन्थकर्तुवैद्यनाथादयं सर्वथा भिन्न एव । स तु तत्सदि- त्युपनामको रामचन्द्रतनयश्चासीत् । अयं पायगुण्ड इत्युपपदो वेणीमहादेवयोः सुतो नागोजिभट्टस्य शिष्यश्चासीत्। व्यक्तमेवौफेक्टो बालभड्मस्य तनयं तत्त्वेन गृह्णन् भ्रान्त एव। उभावपि सुतजनकौ दीर्घायुषो नागौजिभट्टस्य शिष्यतामुपगतौ । अयं वैद्यनाथो अनेकान् व्याकरणधर्मशास्त्रविषयग्रन्थान् विरचितवान् । एतद्विस्तरस्तु म.म. पण्डित- नित्यानन्दपन्तस्य बाबूगोविन्ददासस्य च भूमिकाभ्यामवगन्तव्यः । । ३ राकागमः-अयं टीकाग्रन्थी गागाभट्टेतिप्रसिद्धापरनामकेन विश्वेश्वरभटेन विरचितः । काश्यां विराजते विद्वन्मणिखनिनिभो भट्टानमन्वयः(१)। तत्रैवायमपि महाभागः समन्वभवत् प्रादुर्भावसौभाग्यम् । रामकृष्णभट्टतनूजस्य दिनकरभट्ठस्याऽयं पुत्रः । स एवाऽयं येन शिवाजिभूपतेः सप्तदशाधिकषोडशशतकमिते वैकमेऽब्दे (१६१७) राज्यारोहणसंस्कारः क्षात्रेण कल्पेनाकारि(२) । कायस्थप्रदीपं नाम ग्रन्थं लिखितवानयं विंशत्यधिकषोडशशतकमिते वैक्रमेऽब्दे (१६२०) । तदस्यैहिकयाऽव- स्थित्या त्रिषष्टयधिकपञ्चदशशतमिताब्दस्य (१५६३) अष्टाविंशत्यधिकषोडशशतक. (१) कान्तानाथभट्टेन विरचितं भवेशकाव्यमवलोकनीयमेतदन्वयविशेषजिज्ञा- सुभिः ।।

  • (२) एतद्व्यतिकरवृत्तमधिकृत्य श्रीसिद्धान्तविजयप्रन्थस्योपोद्धातः परिशिष्टानि

च द्रष्टव्यानि ।