पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः ॥ राकागमसहितस्य चन्द्रालोकस्य विषयानुक्रमणिका(१) । विषयाः पृष्ठाङ्काः प्रथमे मयूखे-- टीकाकारस्य मङ्गलाचरणे । स्वस्य टीकायाश्च नामनी निर्दिश्य टीकाकारकृत टीकानिर्माणसूचनं स्वव्याख्यानप्रशंसनं च । ग्रन्थकारस्य मङ्गलाचरणम् । ग्रन्थकर्तुः स्वनामग्रन्थनाम्नोः सूचनम् । ग्रन्थप्रयोजनप्रदर्शनम् । स्वाभिमानपरिहारपूर्वकै स्वोक्तेरुपादेयत्वस्य प्रतिपादनम् । श्रुताभ्याससहितायाः प्रतिभायाः काव्ये कारणत्वं ग्रन्थकृत्संमतं दर्शयित्वा | तस्य कारणत्वस्य सप्रपञ्च निरूपणम् । काव्यस्वरूपनिर्वचनम् ।

  • तत्तन्मतप्रदर्शनप्रकारेण काव्यत्वस्य विवेचनम् ।

काव्यलक्षणे प्राचीनोक्तेः सोपहासं दूषणम् ।। काव्यलक्षणगतं दूषणमुदाहरणेन विशदीकृत्य कैश्चिदुक्तस्य काव्यलक्षणस्य सूचनम् । वाक्यघटकशब्दस्वरूपनिर्देशपुरःसरं शब्दत्रैविध्यस्य निरूपणम् । सर्वेषां शब्दानां यौगिकत्वस्य सर्वार्थवाचकत्वस्य च खण्डनम् । प्रथमद्वितीयशब्दभेदयोः प्रत्येकं त्रैविध्यस्य सोदाहरण प्रतिपादनम् । तृतीयस्य शब्दभेदस्य सोदाहरणं प्रतिपादनं तत्प्रयोजनप्रदर्शनं च ।

  • तृतीये शब्दभेदे सविशेष विचार प्रस्तुत्य प्राचामुक्तीनां निरसनम् । ६-७

पदस्य वाक्यस्य खण्डवाक्यस्य च लक्षणानां निरूपणम् ।

  • पदवाक्यखण्डवाक्ययोः स्वरूपं सप्रपञ्च निरूप्य तत्तन्मतोकिप्रदर्शनपूर्वक

स्वाभिप्रायप्रकाशनेन वाक्यार्थबोधौपयिकक्रमप्रदर्शनविधया च वाक्यार्थी- न्वयबोधस्वरूपप्रदर्शनम् ।। . (१) *** एतचिह्नाङ्किता विषयाष्टीकोन्तर्गता विज्ञेयाः ।।