पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमो मयूखः । -- - - -- - - जगदेव जाग्रद्विकसितं भासरं प्रसिद्धं देदीप्यमानं वा पद्म तस्य केसरं प्रसूतत्वेन तद्वत् यशस्तपः शीतांशुश्चन्द्रोऽप्यस्मात ग्रन्थान् । तेनार्थोपदेशप्राप्तिफलककाव्यज्ञान- प्रयोजकग्रन्थे प्रवृत्तिः सूचितेति भावः । इदमुपलक्षणम् । व्यवहारज्ञानाऽनर्थनिवृत्ति परमानन्दप्राप्तिरूपप्रयोजनत्रयमप्यधिकं बोध्यम् ॥ ३ ॥ स्वाभिमानै परिहरति- ते पूर्वीचार्यसूर्योक्तिज्योतिःस्तामोद्मं स्तुमः । यं संश्रित्य प्रकाशन्ते मद्गुणत्रसरेणवः ॥ ४ ॥ तमिति । पूर्वीचार्याणां सूर्यस्थानीयत्वेन तदुक्तेदप्तिस्थानीयत्वम् । संज्ञात्वा- ऽभावान्न षत्वम् । पूर्वोक्त्यवलोकनाम्यासेनैव मम सामथ्र्यमिति भावः ॥ ४ ॥ नाशङ्कनीयं पूर्वेषां मतमेतेन दृष्यते । किन्तु चक्षुमृगाक्षीणां कज्जलनैव भूष्यते ॥ ५ ॥ नेति । मलिनवदाभासमानाथा अपि स्वोर्जीर्णोक्तिपरिष्कारकत्वेनोपादेयतोक्ता५॥ काव्ये कारणमाह- प्रतिभैव श्रुताभ्याससहित कविता प्रति । हेतुर्पदम्बुसम्बद्धा बीजपङ्कितामिव ॥ ६ ॥ प्रतिभेति । श्रुतं शास्त्र विद्यास्थानं पुराणदि आयुर्वेदादि उपवेदचतुष्कं च तस्या- न्यासस्तत्पठनपाठनाऽवेक्षणपौनःपुन्यं तत्सहिता प्रतिभा बुद्धिविशेष एवं कविता प्रति कवित्वविशेष प्रति हेतः कारणम् । मृदुम्बुम्यां सम्बद्धा बीजपङकिर्लतां प्रति यथा हेतुरित्यर्थः । ‘बीजस्य फलतामिति क्वचित्पाठः । तत्र बीजस्य फलता फल- रूपताम् अङ्कुरितरूपता प्रति जलेन सम्बद्धा सृदिवेत्यर्थः । शास्त्रपदं चालङ्कारिकव्यव- हारगजतुरगखड्गादिलक्षणग्रन्थानामुपलक्षणम् । यदि च तादृशप्रतिभाऽभावेऽपि काव्य कर्तृत्वानुभवस्तदा काव्यविशेषेऽदृष्टस्य कारणतोऽस्तु । न त सर्वत्र काव्ये, मानाभावात् अहष्टकल्पनागौरवाच्च । न च सत्या तादृशप्रतिभायां काव्याऽनुत्पत्तिः कथमिति वाच्यम् । इच्छादिरूपकारणान्तराभावेन तदुपपत्तेः । एवं च विजातीयकाव्येऽदृष्टस्य कारणता, अविजातीयकाव्ये प्रतिभायाः । अतः तृणारणिमणिन्यायेन हेतुत्वान्न व्यभिचारः । न च काव्यत्वस्य कार्यमात्रवृत्तितया कार्यत्वावच्छेदकत्वेन तदवच्छिन्नं प्रत्यदृष्टस्य कारणताऽस्त्विति वाच्यम् । ताहशनियमे मानाभावात् । अस्तु वा इच्छात्वेन हेत्तेति दिक । एतेन काव्यमान्ने दृष्टस्य कारणता, अदृष्टाभ्यासप्रतिभानां चण्डचक्रारदिन्यायेन (१) कारणतेति काव्यप्रकाशोक्तिः (१) परास्ता ॥ ६ ॥ ( १ ) काव्यमात्रेऽदृष्टाभ्यासबुद्धिप्रतिभादीनां चक्रदण्डचीवगदिन्यायेन-इतिक ।