पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राकागमसहिते चन्द्रालोके- योगामासत्वमित्यर्थः । उदाहरणान्याह-ते चेति । वृक्षे वृश्चत्यातपमिति विद्यमान योगप्रतीत्यैव वृक्षत्वजातिप्रतीतेः । तेनावयवार्थाऽननुसन्धाने समुदायशक्त्यार्थप्रत्या- यकत्वम् । तात्पर्य विषयेऽथै असम्भवद्योग नियोगः । भूसत्तायां भूधातुः, गति. वाचको वाधातुः, आदिपदाद्विभक्त्युपसर्गनिपाताः । तात्पर्यविषयेऽनन्वितावयवार्थों योगाभासः । गृहरूपेऽर्थे मण्डपानरूपानन्वयात् ॥ १० ॥ शुद्धतन्मूलसंभिन्नप्रभेदैगिकस्विधा ॥ ते च भ्रान्तिस्फुरत्कान्तिकौन्तेयादिस्वरूपिणः ॥ ११ ॥ शुद्धेति । प्रकृतिप्रत्यययोगेनार्थप्रत्यायकः शुद्धयौगिकः, तादृशयौगिकयोगेन समासेनार्थप्रत्यायको यौगिकमूलयौगिकः, यौगिकायौगिकयोयॊगेनार्थप्रत्यायकः संभिन्नयौगिक इत्यर्थः । उदाहरणान्याह-ते चेति । यथा-भ्रान्तिः पाचक इत्यादि. शब्दाः । 'अमु चलन' इति धातोर्गमनाऽयथार्थज्ञानवाचित्वेऽपि केवलप्रकृतेस्तदर्थ- बोधाभावेन प्रकृतिप्रत्यययोगादेवाऽयथार्थज्ञानगत्योधात् । स्फुरत्कान्तिपदावयव शत्रन्त'फुधातुस्त्रीत्वार्थक्तिन्प्रत्ययान्तकान्त्यर्थंकमुग्धातुनिष्पन्नयोः स्फुरत्पदकान्ति. पदयोः शुद्धयौगिकयोः समासेन तत्सम्बन्ध्यर्थप्रत्यायकत्वम् । देशवाचिनो हस्वस्य स्त्रीत्ववाचकलीष्प्रत्ययान्तत्वेन यौगिकस्य कुन्तीशब्दस्याऽयौगिकापत्यार्थतद्धितस्य च योगेन निष्पन्नस्य कौन्तेयपदस्याऽर्जुनादिप्रत्यायकत्वम् ॥ ११ ॥ योगरूढमाह- तन्मिश्रोऽन्योन्यसामान्य विशेषपरिवर्तनात् । मीरधिः पङ्कजं सौधं सागरो भूरुहः शशी ॥ १२ ॥ क्षीरनीरधिराकाशपङ्कजं तेन सिध्यति । तम्मिश्र इति । अन्यौ भिन्न सामान्यविशेषौ तयौः परिवर्तनमुपस्थितिरित्यर्थः । अन्योन्ययोमिलितयोः सामान्यविशेषयोरिति वा । नीरध्यादिपदात् जलाधिष्ठानत्व-पकु. जनिकर्तृत्व-सुधानिर्मितत्व-भूजातत्व-शशधरत्वसामान्येन समुद्रत्व-कमलत्व-गृहत्व-समुद: त्व-वृक्षत्व-चन्द्रत्वादिविशेषरूपेणाऽप्युपस्थितेनुभविकत्वात् । शक्यतावच्छेदकोभय- प्रकारकोपस्थितये योगरूढिकल्पनमित्याशयः । तस्य फलं क्षीरनीरधिरित्यादिव्यच. हारः । एतदन्तर्गतनीधिपदस्य समुद्रत्वविशेषरूपेणाऽनुपस्थापकत्वे जलाधिष्ठानत्वेनो पस्थापकत्वे क्षीरेयस्यामन्वयापत्तिः। एवं सागरपदस्यापि सगरनिर्मितत्वसामान्यपरत्वे क्षीरसागर' इत्यन्न क्षीरपदानन्वयः । अतस्तदन्वयार्थ समुद्रत्वविशेषरूपेणोपस्थितिः । एवं 'सुरभूव्ह' इत्यत्र भूरुहपदस्य ‘निष्कल शशधर' इत्यत्र शशधरपदस्य वृक्षचन्द्र- रूपविशेषपरत्वम् । एवम् 'आकाशप जपदस्य कमलत्वरूपेणोपस्थापकत्वम्, आकाश सम्बन्धमात्रेण च तत्र प्रयोगः । एवं स्वर्णपङ्कजं 'कलधौतसौध' इत्यत्रापि बोध्यम् । एवं 'नीरधिः अ॒पः इत्यादौ विशेषरूपत्यागेन सामान्यमान्नपरत्वम् । यद्यपि सामान्य