पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथम मयूखः ।। - स्यात् । न च पदसमूहालम्बनं विनायॊपस्थितिरेव कल्प्यतामिति वाच्यम् । तस्याः । पदजन्यत्वाभावे ऋकार्यकारणभावबाधापत्तेः। अतः पदसमूहालम्बनमावश्यकमिति केचित् । कारणत्वस्याऽनन्यथासिद्धिगर्भतया प्रयोजकत्वापेक्षया गुरुत्वात्पदप्रयोज्य- पदार्थोपस्थितेरेव हेतुत्वं युक्तम् । तेन पदसमूहालम्बनं नावश्यकमित्यन्ये । एवं च

  • खले कपोतन्यायेनान्वयबोधः । तदुक्तम्-

वृद्धा युवानः शिशवः कपोताः खले यथामी युगपत्पतन्ति । तथैव सर्वे युगपत्पदार्थाः परस्परेणान्वयिनो भवन्ति ॥ क्वचित्तु राजपुरप्रवेशन्यायेनान्वयबोधः । तत्र ‘दण्डी कुण्डली छत्री चैत्र' इत्यादी विशिष्टस्य वैशिष्टयबोधे तात्पर्यम् । तदुकम्- यद्यदाकाक्षितं योग्यं सन्निधानं प्रपद्यते । तेन तेनान्वितः स्वार्थः पदैरेवावगम्यते ॥ एवं खण्डवाक्यार्थबोधोत्तरं महावाक्यार्थबोधेऽपीति सम्प्रदायः । खण्डवाक्याथे. बोधोत्तरं चरमपदस्मृतिस्ततस्तदर्थस्मृतिः । तत्रार्थस्मृतिकाले खण्डवाक्यार्थबोधनाया- चरमपदस्मृतिरेव तावत्पदविषयिणी, चरमार्थस्मृतिस्तावदर्थविषयिणी । ततोऽन्वयबोध इति । तत्रापि ‘खले कपोत'न्यायेनैव बोध इति नव्याः । तत्र चत्वारः पक्षाः । वा. क्यस्य संसर्गरूपे वाक्याथै शक्तिरिति स्फोटवादिने वैयाकरणाः । तथाहि-‘भवति भूयात् बभूव रामः राममित्यादौ श्रूयमाणतिकारविसर्यादीनां वाचकता, न तु भूधातु लकारसुबाद्युपस्थापनद्वाराऽर्थ प्रत्यायकत्वम् । आदेशिन वाचकत्वकल्पने आदेशान तदुपस्थापकत्वकल्पने गौरवात् । व्याकरणभेदेनाऽऽदेशिनामननुगमाच्च । अन्यथा

  • ऋषभो वृषभो वृष इत्यादावन्यतरेणान्यतरस्मरणेनैकत्रैव शक्त्यापत्तेः । अतः अय-

माणानुपूर्वी विशिष्टवर्णवाचकाः, न तु धात्वाद्युपस्थापका इति वर्णस्फोटः । एवं ‘हरिणा हरये रामात् हरे’ रित्यादौ पदैकदेशविभागाभावात्स्यचिदंशस्य द्रव्यवाच कत्वं कस्यचित्करणत्वाविवाचकतेति निर्णतुमशक्यत्वात करणत्वादिविशिष्टहरिवाचितेति • पदस्फोटः । एवं 'कृष्णैहि रचैनमित्यादौ वाक्येऽशविभागाभावादेकारघटितानु- पूर्वीकस्यागमनवाचकस्यात्र सखे मानाभावाद्वाक्यस्यैव विशिष्टार्थे अकिरिति वाक्य स्फोटः । स द्विविधः, सखण्डवाक्यस्फोटोऽखण्डवाक्यस्फोटश्च । यो द्विविधा, पदरूपखण्डवाक्यस्फोट: वर्णरूपखण्डवाक्यस्फोटश्च । तथा हि-विष्णोऽवेत्यादिवाक्येषु आकाङ्कादिसहकृततत्तत्पदस्मारितपदार्थानां संसर्गरूपवाक्यार्थावगमेऽपि तस्य शब्दत्व: सिखये वाक्यस्य शकिः कल्यते । स एव वाक्यस्फोटः । स चाज्ञाते स्वरूपेण इतुः । अन्वितशकिवादिमतेऽन्वयांशे शक्तिवत् हरिद्रावाक्य इवान्वयावगमाद्वयवहित पूर्ववतिक्षणे तदवगमो वा कल्प्यते । यद्वी 'हरेऽवेश्यादौ पदविभागानिर्णयाद्वर्णप्रया. मकवाक्यस्य सम्बोध्यहरिकर्तृकरक्षणे शक्तिरूपस्फोटः । तदा वर्णरूपः खण्डः न पद: रूपः । अस्याश्च व्यवहारकाले प्रहः । न चचे वाक्यस्य पदवत्स्मारकत्वापत्तिः, अनुभव