कागमसहिते चन्द्रालाकै- यथा वा-- पदाऽनित्यत्वस्य चक्षिङ्मात्रविषयत्वात् । उक्त प्रयोगस्तु न शवन्तः, अपितु वीप्सार्थक णमुलन्तत्वेनोपपादनीय इति । एवं 'नाथसे किमु पतिं न भूभृता'मिति दुष्टम् ,आत्मने- पदिनो नथितेः 'आशिषि नाथ' इत्यात्मनेपदस्याशिष्येव नियमादू याचनार्थके तत्प्रयो. गस्य व्याकरणविरुद्धत्वात् । न च आशिष्यात्मनेपदमेवेति नियमः, आत्मनेपदधातु- मध्यपाठवैयथ्यपतेः । अ'संस्कृतकाव्ये दोषो न प्राकृते । तत्रापि हेमचन्द्रादिसाधित. संस्कारविरोधो दोष इति दण्डी ॥ २ ॥ अप्रयुक्त दैवतादौ शब्दे पुंल्लिङ्गतादिकम् ।। अप्रयुक्तमिति । कविसम्प्रदायविरुद्धमित्यर्थः । यथा- कोदण्डखेलः खलु कौणपानामन्तः प्रसिद्धस्मृतिरेनसां ३ (१)। सवपितुच्छेदकः सदैव स दैवतो मे रघुनायकोऽस्तु ॥ पद्मान् हिमे प्रावृषि खरीटान् क्षिप्नुर्यमादाय विधिः क्वचित्तान् । सारेण तेन प्रतिवर्षमुचैः पुष्णाति दृष्टिद्वयमेतदीयम् ॥ अत्र पद्मशब्दः पुंल्लिङ्गः । आदिपदार् ‘वचन्तीत्यादिप्रयोगः । न हि वचिरन्ति परः प्रयुज्यत इति प्रयोगस्यैव निषेधो न साधुत्वस्य । व्याकरणविरोधालङ्कारिकसम्प्र. दायविरोधयोर्विद्याविरोधत्वेनैक्यसम्भवेऽपि शब्दार्थरूपाश्रयभेदाझेद इति सम्प्रदायः । अस्य दूषकताबीजमर्थोपस्थितिविलम्बजनकता ।। असमर्थं तु हन्त्यादेः प्रयोग गमनादिषु ॥ ३ ॥ स हन्ति इन्त कान्तारे कान्तः कुटिलकुन्तलः । असमर्थमिति । अत्र हन्तिपदं गमनार्थम् । हन्तेरवगतापि गतौ शकिः ‘पद्धति- जैघने जङघेत्यादौ नियता । तदभावेनासमर्थत्वमित्याशयः । यथा - चतुरम्बुधरावृता मही विधिना केन विहाय गम्यते । इति वाजकलानिधेद्विषां वनवासे महती विचारणा ॥ अत्राम्बुधरपदम् ।। निहतार्थं लोहिताद। शोणितादिप्रयोगतः ॥ ४ ॥ निहतार्थमिति । प्रसिद्धनार्थेनाऽप्रसिद्धार्थतिरोधानमित्यर्थः । लोहिते रागे शोणितमिति प्रयोगे रुधिरेण रागस्य निहतिः, विरलप्रयोगादिति भावः । असमर्थ निहतार्थयोदो विभावनीयः । यत्तु-शक्यभाववत्पदप्रयोगोऽसमर्थत्वं शक्तिसचे. sप्रसिद्धार्थकपदुप्रयोगो निहतार्थत्वमिति भेद उक्तः, स चिन्त्यः । हन्तेरपि व्याकरणेन गत शकिंग्रहात् ॥ ४ ॥ (१) धनुर्धारी राक्षसानां पापानां च नाशको रघुनायक', कल्याणकारित्वेन यस्य स्मरणं प्रसिद्धमित्यर्थः ।
पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/६३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति