पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राकागमसहिते चन्द्रालोके- - --- - -- - --- - - - - - अपराधीन इति । वर्णनाविरुद्धार्थप्रतीतिजनके विरुद्धमतिकृत् । वर्णनाविषय- पराधीनत्वाभावबोधकापराधीनपदस्य अपरख्याधीन' इति षष्ठीसमासेन विरुद्ध पराधीनत्वरूपार्थबोधकत्वादुदाहरणत्वम् । सन्दिग्धस्य तु न विरुद्धार्थप्रत्यायकत्व- मिति भेदः । पयोधरविशेषणतया तात्पर्यविषयस्योतुङ्गत्वस्य हारविशेषणस्वप्रत्यायक. त्वावन्यसङ्कतत्वमित्यर्थः । न चान्नैकत्र द्वयमिति न्यायेन विशिष्टवैशिष्ट्यबोधसम्भवाः ज्ञास्य दोषत्वम् । अन्यथा सर्वत्र त्रिपदसमासोच्छेदप्रसङ्गः । न च 'द्वन्द्वतत्पुरुषयो- कुत्तरपदे नित्यसमासवचन मिति वचसो रिक्तार्थत्वप्रसङ्ग इति वाच्यम् । समाससन्दे- हैन बोधविलम्बस्य दूषकताबीजत्वात् । अत एव क्लिष्टादिदोषचतुष्टयं समासनिष्ठ- मेवात्रोक्तम् । इदं चाविसृष्टविधेयत्वान्तर्गतं, तत्रापि क्रियाविशेषणत्वेनेष्टस्य तदवि शेषणत्वतौल्यादिति काव्यप्रकाशः ॥ १४ ॥ पददोषानुक्त्वा वाक्यदोषानाह- रसाद्यनुचित वर्णे प्रतिकूळाक्षरं विदुः । न मामङ्गद ! जानासि रावण रणदारुणम् ॥ १५ ॥ रसादीति । शृङ्गाररसोचिताः कोमलवण वीररसोचिताः कठिना अनुचिता विपरीताः, ताडशवर्णवद्वाक्यं प्रतिकूलाक्षरमित्यर्थः। वीररसानुचितकोमलवर्णमुदाहरति- म मामिति । कर्कशमिति पाठे न दृषः ॥ १९ ॥ यस्मिन्नुपहतो लुप्तो विसर्ग इति तत्तथा । यस्मिन्निात । उपहत इत्वं प्राप्तो लुतो चा विसर्गों यत्र तद्वाक्यं तथा । अपहत- विसर्गे लुप्तविसर्गे चेत्यर्थः । उदाहरणमपीदमेव । ‘उपहतो लुप्तोः इति उत्वप्रासः, 'विसर्ग इति' अत्र लुप्तः । एतेषां क्रमशो बहुशः पातो रचनानिष्ठो दोष इत्याशयः । अत्राऽकार. प्रश्लेषण प्रथमासप्तमीसन्देहेन चान्यार्थप्रत्यायकत्वं दूषकताबीजम् ।। कुसन्धि पटवागच्छ विसन्धि नृपती इमौ ॥ १६ ॥ कुसन्धीति । सन्धावश्लीलता क्लिष्टत्वं च कुसन्धित्वम् । 'पो ! आगच्छे’त्यत्र सन्धावश्लीलता । उव्येसावत्र तर्वाळी सर्वन्तै चार्धवस्थितिः । नान्नजें युज्यते गन्तुं शिरो नमय तन्मनाक् ॥ । इत्यादौ क्लिष्टत्वम् । विसन्धीति । 'प्लुतप्रगृह्या अचिः इति प्रगृह्यसंज्ञाप्रयुक्तः ।

  1. हितैकपदे नित्या नित्या धातूपसर्गयोः ।।

| नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥ इति वैकल्पिकसंहिताप्रयुक्तश्च सन्ध्यभावो विसन्धित्वम् । नृपती' इति प्रगृह्म संज्ञाप्रयुक्तः। द्वितीयस्तु-‘धन्यासि या कथयसि प्रियसङ्कतानि इत्थं सखोषु परिवार