द्वितीयो मयूखः ।
- ~- क्लिष्टकल्पनया व्यक्तिनुभावविभावयोः ॥ प्रतिशूलविभावदेहोऽनुचितवन्धता ।। इति रसदोषचतुष्टयमप्युपलक्षितम् । तथाहि-शोकेनेति स्थायिभावः शब्द नोकः । त्यहारमुरः कृत्वेत्यनेन शृङ्गारकरुणसाधारणेन करुणरसानुभावचित्तविक्षेपस्य शृङ्गारोहीपनविभावस्य च क्लेशेन कल्पनं करुणरसानुभावप्रतिकूलश्वरादिविभावा- इनालिङ्गनादिकथनं चेति । यथा वा- लसद्ब्रीडाः सकरुणाः सुष्य अथ सविस्मयाः । निपतन्ति भवद्रूपे कामिनीनयनाञ्चलाः ॥ अन्न व्यानन्नत्वादिकार्यमुखेन वाच्यानां ब्रीडादीनामुक्तिः । अयं च दोषो व्यभि- चारिणी स्वातन्त्र्येणोपादान एव । रसव्यञ्जनार्थमुपादाने तु न दोषः । यथा 'लज्जा- बन्नमुखी'त्यादौ ।। जनकस्य सता राम ! कथभूदेति सस्मिताः । रामस्य जानकीसख्यः परिहास प्रचक्रिरे ॥ अन्न हासस्य शब्देनोकिः । 'मेरयामासुराननमिति युक्तम् । सम्बरसंवरणच्छलकृतकणझकृतिबला । उन्निद्रयति निशीथे निर्भरनिद्राकुळस्य रविंम् ॥ अन्न स्थायिनो रतेः शब्देनोकिः ।। कर्परधूलिधवलद्युतिपूरधौतदिङमण्डले शिशिररोचिपि तस्य यूनः । लीलाशिरोऽशुकनिवेशविशेषक्लप्तिव्यक्तस्तनोन्नतिरभूचयनrsवनौ सा ॥ अत्रोद्दीपनालम्बनरूपाः पदार्थाः शृङ्गारयोग्यविभावानुभावपर्यवसायिनः स्थिती इति क्लिष्टकल्पना ।। गता रतिर्मतिलूना भूयो विपरिवर्तते । अवस्था तस्य विषमा देहं परिभवत्यदः ॥ अन्न रत्यभावादीनां करुणादिसाधारण्याकामिनीरूपो विभावः प्रकरणालोचनादि. कक्ष्यः । विमुञ्च माने सात १६ त्यज मुदं कुरु । प्रसीद बाले ! कालेऽस्मिन् गतः कालो न यास्यति ॥ अत्रानित्यताप्रकाशनरूपो विभावस्तत्प्रकाशितो निवेदश्च शृङ्गारप्रतिकूलो व्यभि. चारिभावः ।। क्रुध्यतु नाम नमान्दा पतिरपि मन्दादरो भवता । उब्वैरिदं वदामो मम सखि ! दामोदरः सर्वम् ॥ अन्न निःशक्षुत्वं वीरानुभावः । अनुचितबन्धता तु दिव्यनायकेषु विष्ण्वादिषु गुर्वादिषु च सम्मोगादिवर्णनम् । अदिव्येषु समुवलङ्घने सद्यःकोपफादिवर्णनम् । एवं