पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६
राकागम्स्नहिते चन्द्रालोके

प्रसिद्धेति लोकप्रसिद्धिविरोधेपि न दोषः । यथा वा-- जानेऽमुना कर्णलतामयेन पाशद्वयेन च्छिद्रेतरेण । एकाकिपाशं वरुणं विजिग्येऽनङ्गीकृतायासतती रतीशः ॥ कामस्य पाशः कविप्रसिद्धिविरुद्धः । द्वितीयोदाहरणम्- केतकीति । शम्भुशेखरे केतकी पुराणविरुद्ध । विधाय दूर केयूरमनङ्गाङ्गणमङ्गना । बभार कान्तेन कृतां करजक्षतमालिकाम् ॥ | अन्न कामशास्त्रविरोधः । एवं शास्त्रान्तरविरोध ऊह्यः । अन्न काव्यप्रकाशे अनवीकृतत्वं दोषः । तच्च बहुशः प्रतिपाद्यस्यार्थसकयोक्यो कथनम् । यथा- प्राप्ताः श्रियः सकलकामदुधास्ततः किं । दत्तं पदं शिरसि विद्विषतां ततः किम् ।। सन्तर्पिताः प्रणयिनो विश्वैस्ततः कि | कल्पं स्थितं तनुभृतां तनुभिस्ततः किम् ॥ इति । तत्तु कथितपदान्तर्गतमिति नोक्तम् ॥ ३४-३६ ॥ सामान्यपरिवृत्तिमाह-- सामान्य परिठ्ठात्तः स्यात्कुण्डलच्छविविग्रहा ।। विशेषपरिवृत्तिः स्याद्वनिता मम चेतसि ।। ३६ ।। सामान्येति । अपेक्षितार्थसमर्थकसामान्यरूपोकित्यागेनाऽनपेक्षितविशेषोपादान मित्यर्थः । कुण्डलच्छवीति लक्ष्यम् । कनकालङ्कारविशेषः कुण्डलम् । विग्रहे कनक- कान्तेर्विवक्षणेनाऽपेक्षितकनकसामान्यरूपत्यागेन विशेषरूपकुण्डलोक्तिः । यथा वा- कल्लोळवेल्लितषत्परुषप्रहारै रत्नान्यमूनि मकरालय ! मा वर्मस्थाः । किं कौस्तुभेन विहितो भवतो न नाम याचप्रसारितकरः पुरुषोत्तमोऽपि ॥ अत्र सर्वरत्नसाधारणधर्मेण कौस्तुभस्योपकारकत्वे वच्चेि कौस्तुभत्वविशेषधर्मे- णोकमिति सामान्यपरिवृत्तिः । “एकेन किं न भवतो विहितो न नामेति युक्तम् । विशेषपरिवृत्तिरिति । अपेक्षितविशेषत्यागेनाऽनपेक्षितसामान्याभिधानमित्यर्थः । वनितेति लक्ष्यम् । अत्र वनितत्वसामान्येन सर्ववनितानामिच्छाविषयत्वासम्भवात् वल्लभात्वादिरूपेणापेक्षितविशेषाभिधानत्यागः । यथा वा- श्याम श्यामलिमानमानयत भोः ! सान्दैर्मषीकूर्चकै. | स्तन्त्रं मन्त्रमथ प्रयुज्य हरत श्वेतोत्पलानां श्रियम् । चन्द्रे चूर्णयत क्षणाञ्च कणशः कृत्वा शिलापट्टके येन द्रष्टुमर्ह क्षमे दश दिशस्तद्वक्त्रमुद्राङ्किताः ।। अन्न तमल्विन्याः श्यामतया श्यामीकरणासम्भवात् रात्रिविशेषो विरहिदुःखदो