३० राकगिमसहिते चन्द्रालाके- - वर्तसेन जितं सर्वे विभूषणम् ।' इत्यादौ पुनः कणोदिपदप्रयोगे कर्णस्थितित्वरूपार्थ- विशेषगमकतया दोषाभावः । अत एव ज्याबन्धनिष्पन्दभुजेने'त्यादौ न धनुरारूढत्व प्रत्ययः । एवं नीरसे श्रुतिकदुत्वकष्टत्वयोर्न दोषत्वम् , दूषकताबीजाभावात् । एवं यत्रान्तिमो भागो वाक्यार्थान्तरप्रतिपत्तिकृत् , यन्न वा हेतुप्रतिपाइकं विशेषणम् , तत्र समासपुनरुत्तत्वं न दोषः ॥ ४३ ॥ तृतीयोदाहरणमाह- दधार गौरी हृदये देवं हि-मकराङ्कितम् । अत्र श्लेषोदयात्रैव त्याज्यं हीति निरर्थकम् ॥ ४४ ॥ दधारेति । हिकारस्य श्लेषनिर्वाहकतया आवश्यकत्वात् । यथा वा- पल्यौ वृते तयाऽन्यस्मिन् यदर्थं गतवानसि । उद्वेगेन विमानेन किमनेनापि-धावता ॥ अत्र अपिपदं न विद्यते पिधा यस्येति श्लेषनिर्वाहकम् । एवमप्रयुक्तनिहतार्थयो- रपि न दोषत्वम् । यथा- येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृत ययोवृत्तभुजङ्गहारवलयोगङ्गां च योऽधारयत् । यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामाऽमरः । पायल्स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवः ॥ अन्न माधवपक्षे शशिमदन्धकक्षयकरशब्दावप्रयुक्तनिहता। एवमन्यदप्यूह्यम् । इदमुपलक्षणम् , अनुकरणे सर्वेषां दोषाणामदूषकत्वात् । यथा- भवासो दीनः क्षुदुपशमहेतोः प्रतिदिन भवान् भिक्षी देहीत्यविरतमोचं यदवचः । तत्ते लज्जायै भवति नटतः प्रोज्य चसनं परं त्वां वा मृष्यत्यहह ! जगदम्बा कथमिव ॥ अश्न भवच्छब्दयोगे मध्यमपुरुषश्च्युतसँस्कृतिनुकरणत्वान्न दोषः । न चाऽनुक• रणस्य परोक्यनुवादरूपतया नेदमनुकरणमिति वाच्यम्, लाघवादुक्त्यनुवादस्यैवानु- करणत्वात् । 'भिक्षी यच्छत्विति परमवोचमिति पाठे तु न दोषः । एवमन्यत्राप्यू- ह्यम् । एवम् अकरसदोषाणां क्वचिदपवादो मूलेऽनुकोऽपि सुधीभिरुह्यः । कश्चित्तच्यते- | अन्याङ्गत्वेन बोध्यत्वेनोको दोषो न केल्यचित् ।। कस्यचिद् व्यभिचारिणो रसस्य स्थायिभावादेः शब्देनोको न दोष इत्यर्थः । यथा- औत्कण्ठ्यलज्जादरमथर ते प्रेत्पदाकजं शयने रसेन । निद्राभर मोचयितु म्यवेशि हा ! हन्त !! तत्तन्धि ! मयैव दग्धम् ॥ अन्न व्यभिचारिभावानामौत्कण्ठ्यादीनामन्यात्वात् शृङ्गारस्य करुणाङ्गत्वाद्
पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/७९
एतत् पृष्ठम् अपरिष्कृतम् अस्ति