द्वितीयो मयूखः । करुणरसस्य बोध्यत्वेन चा शब्देनोकावपि न दोषो रसावबोधप्रतिबन्धाभावादङ्गिनो रसस्य पोषाच्च । एवमलङ्कारदोषी मूलेऽनुका अपि स्वयमूहाः । केचित्तच्यन्ते । तत्र शब्दालरिदोषाः- प्रसिद्धयभावो वैफल्य प्रतिकूल्यं रसस्य च । पादहीनत्वमित्येषां शब्दालादुष्टता ॥ यथा- कुबेरः कुवरात्रं च चक्री चक्रे हरिहरीन् । यस्य स्तौति, स वो दद्यात् शिवस्य स्यन्दनः शिवम् ॥ अत्रेडशी स्तुतिरनुप्रासानुरोधेनैव कृता न तु पुराणादिषु प्रसिद्धेति प्रसिद्धयभावः। येमानुप्रासादिना वाच्यस्य चारुत्वं न प्रतीयते स विफलः । यथोदाहरिष्यमाणे वृत्यनुपासे अमन्दानन्दसन्दोहस्वच्छन्दास्पन्दमन्दिरम् । इति रसप्रतिकूलवर्णघटिता- ऽनुप्रासादित्वं रसपातिकूल्यम् । यथोदाहरिष्यते । | वीसोत्सर्पन्मुखार्दै बह जहे अशस्तृणम् । ललना रभसे धत्ते घनाटोपे महीयसि ॥ अन्न शृङ्गारप्रतिकूलवर्णता । अनुप्रासयमकादेरेकस्मिन् पादादाववृत्तित्थं पादहीन. त्वम् । यथाऽनैवोत्तरार्धेऽनुप्रासहीनत्वम् । एवं यमकादिहीनत्वमवसेयम् । यथा वा- अहह ! सह मघोना श्रीप्रतिष्ठासमाने निलयमभि नलेऽथ स्वं प्रतिष्ठासाने । अपतदमरभतिबद्धव कीर्ति- | गैलदलमधुबाष्पा पुष्पवृष्टिर्नभस्तः ॥ ' एते च प्रसिद्धिविरुद्धाऽपुष्टार्थत्वाप्रयुक्तत्वान्तर्गता इति काव्यप्रकाशः । एवमर्थालङ्करदोषाः ।। जातिप्रमाणधर्माणां न्यूनत्वाधिक्ययोरपि । अप्रसिद्धथा च वचनलिङ्गभेदेन वा पुनः ॥ कालस्य पुंसश्च विधेर्भेदो वैरूप्यमेव च । उपमानस्य दुष्टत्वमुपमादिषु दुष्टता ॥ क्रमेणोदाहरणानि- चण्डाहैरिव युष्माभिः साहस परम कृतम् ।। वन्हिस्फुलिङ्गक इव भानुरस्ति प्रकाशझव (१) ॥ इदं न्यूनोपमम् । अयं पद्मासनासीनश्चक्रवाको विराजते । युगादौ भगवान् वेधा विनिर्मित्सरिव प्रजाः ॥ १ वह्निस्फुलिङ्ग इव भानुरयं चकास्ति-इति छ ।
पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/८०
एतत् पृष्ठम् अपरिष्कृतम् अस्ति