पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२ राकागमसहिते चन्द्रालोके- माधुर्यमुक्तमत्रापि क्रोधादावष्यतीव्रता । अनिष्ठुरत्वं यत्प्राहुः सौकुमार्य तदुच्यते ॥ अर्थव्यक्तिः स्वरूपस्य साक्षात्कथनमुच्यते । कान्तिप्तरसत्वं स्याद् भूत्युत्कर्ष उदारता ॥ माशयस्य य उत्कर्पस्तदुदात्तत्वमुच्यते । ओजः साध्यवसायस्य विशेषोऽर्थेषु यो भवेत् ॥ रूदाहङ्कारतौजित्यं प्रेयस्त्वर्थेष्वभीष्टता । अदारुणार्थपर्यायो दारुणेषु सुशब्दता ॥ व्याजावलम्बनं यत्तु स समाधिरिति स्मृतः । सौम्यमित्युच्यते तत्तु यत् सूक्ष्माभिदर्शनम् ॥ शास्त्रार्थसत्यपेक्षत्वं गाम्भीर्यमभिधीयते । विस्तरोऽर्थविकासः स्यात्संक्षेपस्तस्य संवृतिः ॥ शब्दार्थी यत्र तुल्यौ स्तः संमितत्वं तदुच्यते । साभिप्रायोकिविन्यासो भाविकत्वं निगद्यते ॥ गतिः सा स्यादवगमो योऽर्थादर्थान्तरस्य तु । रीतिः सा यस्त्विहानामुत्पत्यादिक्रियाक्रमः ॥ उकिर्नाम यदि स्वार्थी भझ्या भव्योऽभिधीयते । विवक्षितार्थनिर्वाहः काव्ये प्रौढिदिति स्मृता ॥ इति । तेषामपि यथासन्निवेशमेष्वेवान्तभवो बोध्यः (१) । महादेवः सूत्रप्रमुखमखविद्येकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ । तुरीयस्तैनासौ सुकविजयदेवेन रचिते | चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः ॥ १३ ॥ इति श्रीपीयूषवर्षपण्डितजयदेवविरचिते चन्द्रालोकालङ्कारे गुणनिरूपणाख्य- श्चतुर्थों मयूखः ।। विश्वेश्वरापराख्यस्य गागाभट्टमनीषिणः । चन्द्रालोकमयूखेऽभुञ्चतुर्थे विवृतिः शुभा ॥ इति गागाभट्टकृतचन्द्रालोकटीकाया राकागमे चतुर्थों मयूखः । - - - ( १ ) इति । तेषामपि यथा सन्निवेशौ बुधैः कृतः-इति क ।।