पञ्चमी मयूखः । गुणान्निरूप्यालङ्कारान्निरूपयितुमलङ्कारसामान्यलक्षणमाह- शब्दार्थयोः प्रसिद्ध्या वा कवेः भौदिवशेन वा ।। हारादिवदलङ्कारः सन्निवेशो मनोहरः ॥ १ ॥ शब्दार्थयोरिति । शब्दानामथन चालङ्कारिकतात्पर्य विषयभूतो मनोहरश्चम- त्कारकारकः सन्निवेशः समभिव्याहारः शब्दगतोऽर्थगतश्चालङ्कारः । अप्रसिद्धोऽपि प्रौढ कविकल्पितोऽलङ्कारो भवतीत्याह- कवेः प्रौढीति । हारादिवदित्यनेन काव्यस्वरूप- बहिर्भाव उक्तः । तेन गुणाझेदः सूचितः । शाब्दत्वमलङ्कारे शब्दान्वयत्यतिरेकानुदि- धायित्वम् । अर्थत्वं च अर्थबोधान्वयव्यतिरेकानुविधायित्वम् । तेन वक्रोकिइलेष- योन शब्दालङ्कारत्वम् । अर्थानवचेाधे तदबोधात् । अर्थानवबोधेऽप्यनुप्रासादीनां चम- त्कारजनकत्वाद् युकं शब्दालारत्वम् । अत्रार्थबोधान्वयव्यतिरेकानुविधायित्वाभावे सतीति विशेषणीयम् अन्यथा समासाक्तिपरिक्षरादीनामपि शब्दान्वयव्यतिरेका नुविधानतौल्यात् स्याच्छब्दालङ्कारत्वमिति ॥१॥ छेकानुप्रास लक्ष्यलक्षणाभ्यामाह- स्वरव्यञ्जनसन्दोहव्युहाऽमन्दोहदोहदा ।। गौजंगज्जाग्रदुत्सेका छकानुप्रासभासुरा ॥ २ ॥ स्वरेति । 'वर्णसाम्यमनुप्रासः इति सामान्यलक्षणम् । साम्यं च व्यञ्जनैरेव न स्वरैः । तेन स्वरवैसादृश्येऽपि ‘स्पन्दमन्दीकृते'त्यादावनुप्रासत्वाक्षतिः । या गौवणी, स्वरयुक्तानि व्यञ्जनानि तेषां सन्दोहः साम्यं तस्य व्यूह आवृत्तिर्यस्यां सा, छेका विदग्धास्तत्सम्बन्धी योऽनुप्रासो रसानुगुणे। न्यासस्तेन भासुरी प्रसिद्धा, भवतीति शेषः । किंभूता, अमन्दः सम्यक् य ऊहो ज्ञानं तोहदरूपा तज्ज्ञनिका, जगति जाग्रत् सत्सेक उत्कर्षों यस्या इत्यक्षरार्थः । अन्न स्वरेत्यविवक्षितम् । तेन व्यञ्जनसाम्य छेकानुपास इत्याशयः । 'दोहव्यूहे'त्यन्न स्वरवैसादृश्येऽपि व्यञ्जनसाम्यात् 'दोहदोहे'. त्यत्र स्वरव्यञ्जनसकृत्साम्याक्लक्ष्यमपीदमेव ॥ २ ॥ आवृत्तवर्णसम्पूर्ण दृत्यनुप्रासवद्वचः । अमन्दानन्दसन्दोहस्वच्छन्दास्पन्दमन्दिरम् ॥ ३ ॥ आवृत्तेति । आवृत्तवर्णेन पूरितं वचो वृत्त्यनुप्रासवत् । किंभूतम्, अमन्दो भुयान् आनन्दसन्दोह अनिन्दस्तोमस्तस्य स्वच्छन्दास्पन्दः स्वछन्दव्यवहारस्तस्य गृहम् । तेनाऽसवृ.इकवर्णावृत्तिस्यनुप्रासः । कारावृत्तेक्ष्यमपि ॥ ३ ॥
पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/९२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति