पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राकागमसहिते चन्द्रालाकै- वर्णानुप्रासमुक्त्वा पदानुप्रासमाह- लाटानुप्रासभूर्भिन्नाभिप्रायपुनरुक्तता । यत्र स्यान्न पुनः शत्रोगेर्जितं तज्जितं जितम् ॥ ४ ॥ लाटेति । यत्राभिप्रायभेदेनाभिन्नार्थकपदावृत्तिः सा लाउदेशस्थविचक्षणप्रिया- ऽनुप्रासस्थानमित्यर्थः । यथा वा-- सत्सङ्गनिरता वत्स ! भविष्यसि भविष्यसि । अथ सत्सङ्गगोष्ठीषु पतिष्यसि पतिष्यसि ॥ अभिप्रायाभेदेनाभिन्नार्थकपदावृत्तिरिति लक्षणम् । द्वितीय'जितपदस्य साफल्या- भिप्रायकत्वाछक्ष्यत्वम् । अयं च पञ्चधा-पदस्य, पदान, समासे, समासद्वये, समासा. इसमासयोश्चेत । पदस्योक्तः । पदानां यथा-- यस्य न सविधे दयिता देवदहनस्तुहिनदीधितिस्तस्य । यस्य च सविधे दयिता वदेहनस्तुहिनदीधितिस्तस्य (१) ॥ समासादौ यथा-- सितवरकररुचिरविभा विभाकराकार ! धरणिधर ! कीर्तिः । पौरुषकमला कमला(२) सापि तवैवास्ति नान्यस्य ॥ ‘सितकरकरे तिसमासै रुचिरविमा-विभाकराकारे'ति समासयोः, 'पौरुषकमला कमति समासतदेकदेशयोवृत्त्यनुप्रासोदाहरणम् ॥ ४ ॥ श्लोकस्यार्धं तदर्थे वा वणत्तिर्यदि ध्रुवा । तदा मता मतिमतां स्फुटानुपासता सताम् ।।५।। श्लोकस्येति । अर्धे पादे तदधे पदार्थे । उत्तरार्धे पादान्तरगततकारसाम्येन उत्तरार्धंगतपूर्वपादाधंगततकारसाम्येन च लक्ष्यत्वम् । अयं च न पदनिष्ठः, किन्तु वर्णनिष्ठः । अयं वृत्त्यनुप्रासभेद' इति दर्पणः ॥ ६ ॥ उपमेयोपमानादावर्यानुप्रास इष्यते । चन्दनं खलु गोविन्दचरणद्वन्द्ववन्दनम् ।। ६ ।। उपमेयेति । अत्र चन्दनवन्दनयाः समानबहुवर्णवत्पदप्रतिपाद्यवसायेनोपमान पमेयभावः । तेनार्थद्वारा वन्दनं चन्दनमिवेति वाक्ये वणवृत्तेः शब्दनिष्ठोऽयं बोध्यः। तेन शब्दालङ्कारत्वाक्षतिः ॥ ६ ॥ ( १ ) चन्द्रः शीतलोऽपि विरहोद्दीपकतया दुःखदो विरहिणां प्रियासहचरण पुनः सुखदो भवांते सन्तापकारोऽपि दावाग्निरिति भावः ।। (२) पौरुषेण पुरुषार्थेन तशात्प्राप्तेति यावत्, यो कमला लक्ष्मीः सैव लक्ष्मीर्वास्तविकीत्याशयः । अन्यत्सुगमम् ।