पञ्चमो मयूखः ।
- ४४
एवमन्यानि स्वयमुद्यानि ॥ ८ ॥ चित्रकाव्येषु खड्बन्धं श्लोकद्वयेनाह- काव्यवित्प्रवरैश्चित्रं खङ्गवन्धादि लक्ष्यते । तेष्वाचमुच्यते श्लोकद्वयीसज्जनरञ्जिका ॥ ९ ॥ कामिनीव भवत्खङ्गलेखा चारुकरालका। काश्मीरसेकारक्ताङ्गी शत्रुकण्ठान्तिकाश्रिता ।। १० ।। काव्यविदिति । सन्निवेशविशेषेण यत्र न्यस्ता वणः खड्गाद्याकार प्रकटयन्ति, तत्खड्बन्धादि चित्रकाव्यम् । चित्रमेव तत्रालङ्कारः । करश्च अलिक च चारु सुन्दर यस्याः। काश्मीरसेका काश्मीरजलसेकेन कृताऽऽरकाङ्की । अत्र मुटेपर्यंधोदेशे दक्षिणों त्तरयोः शाखाद्वयं लेख्यम् । तत्र खङ्गसंलग्नं शाखाद्वयमधिकं लम्बे सधः शाखाद्वयं च हस्वम्। एवं वङ्गो लेख्यः। तत्र खङ्गसंलग्नशाखाचतुष्टयमध्ये प्राथमिकः काकारो लेख्यः ।। तदधः खड्गदक्षिणभागे 'व्यविदित्यादिक्ष्यकारान्तानि चतुर्दशाक्षराणि । खड्गा ते कारश्च लेख्यः । ततस्तमेव 'तेरकारमादाय खगोत्तरभागे ‘ब्वाद्येश्यादिजिकान्तिानि चतुर्दशाक्षराणि लेख्यानि । अन्तिमः ‘काकारः प्राथमिक एव । ततस्तमेव 'का'कार: मादाय मुष्टिदक्षिणशाखायो ‘मि'कारादीनि सस, उत्तरशाखायां च 'ले'कारादीनि सप्त लेख्यामि । अत्राप्यन्तिमः का कारः प्राथमिक एव । ततस्तमेव ‘काकारमादाय मुष्टिवीथ्य 'श्मीत्यादि वर्णत्रयं लेख्यम् । तदधश्चतुष्पथे ‘काकारो लेख्यः । दक्षिण शाखाया 'क्रेत्यादि वर्णचतुष्टयम्, उत्तरशाखायो ‘झुकण्ठान्तिइति वर्णचतुष्टयं लेख्यम् । ‘का'कारः पुनः स एव वाचनीयः । ततः श्रिते? ति वर्णद्वयं मुष्ट्य लेख्यमिति । अन्येऽपि केचन बन्ध उदाहियन्ते- सङ्गतानि मुदा राजन्मदनामरविद्विषाम् ।। | युगलानि तदा भ्राजदुदयामरविद्विषाम्(१) ॥ अयं गोमूत्रिकाबन्धः । अत्रार्धयोर्युग्माक्षरेक्यमेव बीजम् । विकारकारिकामाङ्का स्वाकारैकाऽभिकाऽऽसिका । विनिद्रुकलिकालता । तद्नं विकसितानां लतानामिव नलप्रतारणबद्धादरस्य कलेरपि निवासस्थानमासीदिति भावः ।। ( १ ) राजन् विलसन् मदनः कामो येषु ते च तेऽमरविद्विषोऽसुराश्च तेषां राज. न्मदनामरविद्विषाम् , भ्राजन् विराजमान उदयो येषां तादृशोऽमरा देवास्तेषां विद्विषः शत्रवस्ता शानां भाजदुदयामरविद्विषाम् ।कामिना प्राप्तोदयेषु देवेषु द्वेषभावमाबिश्नता चैत्युभयेषामसराणां युग्मानि तस्मिन्पमये परस्पर मिलितान्यभूवन्नित्यर्थः । अत्र भाजदिति परस्मैपदं चिन्त्यम् ।