पृष्ठम्:चम्पूभारतम्.pdf/१४१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३९
तृतीय स्तबक ।

रालोकैर्नीडवत्सु केषुचित्परस्परपक्षिपक्षताडनरटनायमानै प्लो[१]षचटचटत्कारैश्च प[२]रित परीतमपि तद्वन [३] मुहूर्त यथपुरमवतस्थे ॥
 हुताशनपरित्रासादुच्चलन्त्या वनश्रिय
 कबरीव श्लथावेगात्कापि धूम्या खमानशे ॥ ११६ ॥
 वलय धूमरेखाया वर्त्मनि धोस[४]दा बभौ ।
 भाविन शरकूटस्य परितो मानसूत्रवत् ॥ ११७ ॥
 अस्यैव गाण्डिवश्रुतो भुवि भो ज[५] न त्व
  मल्ल तृणाय मरुतामपि म[६]न्यमानम्


ऋक्षेषु नीलदलेषु पर्णोञ्चय दलसमूह इव आचरद्भ्द्रि पर्णोन्चयायमानै । उपमानात्क्यङ् । लट शानच् । एवमग्रेऽपि । वूमै । किशुफ़ादिषु केषुचिह्नमेषु तन्षु रत्तकुसुमेषु स्तबकायमानै पुष्पगुच्छवदाचरभ्दि ज्वालाकन्दलै शिखाद्वरै । तिलकादिषु केषुचित्तरुषु रक्तबीजेषु पचेलिमाना पक्काना फलना बीजायमानै स्फुलिङ्गैरग्निकणै । हरिचन्दनादिषु केषुचिद्विटपिषु तरुषु रक्तत्वक्षु वल्कलायमानै । ‘त्वक्स्त्री वल्क वल्कलमस्त्रियाम् इत्यमर । आलोकै प्रकारौ । नीटवत्सु पक्षिकुटीरधारिषु केषुचित्तरुषु परस्पर पक्षिणा पक्षाभ्या ताडनेन यद्रटन चटचटशब्दस्तद्वदाचरभ्दी रटनायमानै । प्लोषाणा दाहाना सबन्धिभिश्चटचटात्फ़ारै परित सर्वत परीत व्याप्तमपि तद्वन खाण्डव मुहूर्तमपकाल यथापुर दाहात्पुरेव अवतस्थेऽवर्तत ‘अव्यय विभक्ति-' इत्यादिना सादृश्यार्थेऽव्ययीभाव । ‘नाव्ययीभावात्-' इत्यम् । अत्राग्निदाहेन विकृतस्य वनस्य पुनर्दूमादिभि । पूर्वावस्थासपादनात्पूर्वरूपालकारभेद ‘पूर्वावस्थानुवृत्तिश्च विकृते सति वस्तुनि’ इति लक्षणात् । तस्य चोपमापञ्चकोज्जीवितत्वात्तयोरङ्गाङ्गिभावेन सफर

 हुताशनेति । कापि महत्त्वेनानिर्वाच्या घूम्या धूपहिक्त । पाशादित्वाद्यत् । हुताशनादग्ने परित्रासात्परितो भयात् उच्चलन्त्या ऊर्ध्व पलायमानाया वनत्रियो वनलक्ष्म्या वेगात् पलायनसभ्रमात् श्लथा मुक्तबन्धना क्बरी केशपाश इवेत्युत्प्रेक्षा । ख आकाश आनशे व्याप्नोतिस्म ॥ ११६ ॥

 वलयमिति । धूमरेखाया वलय मण्डलम् । द्यविं आकाशे सीदन्तीति योसदा देवाना वर्त्मनि आकाशे भाविनो भविध्यत शरमयस्य कूटस्य शालाया परित यावच्छाळ मानसूत्रवत् प्रमाणसूत्रमिवेत्युत्प्रेक्षा । बभौ 'वास कुटी द्वयो शला’ इति गृहपर्यायेष्वमर ॥ ११७ ॥

 अस्यैवेति । भो जन हे लोक त्व मरुता देवाना मल वीरमिन्द्रमपि भुवि तृणाय मन्यमान तृणकल्पत्वेन सभावयमानम् । अस्य गाण्डीवभृतोऽर्जुनस्यैव


  1. ‘प्रोधञ्चटचटात्कारै’ इति पाठ
  2. ‘सवत ’ इति पाठ
  3. ‘मुहूर्तम्’ इति नास्ति कचित्
  4. ‘धुसदा’ इति पाठ
  5. “हे जन' इति पाठ
  6. ‘मयमान ’ इति पाठ