पृष्ठम्:चम्पूभारतम्.pdf/१६१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५९
चतुर्थ स्तबक ।


अनुजामिरनामयानुयुक्तेरभिनन्द्य क्रतुलाभलालनाभि ।
सदनाय ससर्ज त विनीत स वृताकारनिगूह्ननो महीप ॥ २७ ॥
 तावन्मदीयतनुभेदिभटान्तहेतु-
  र्वैर मिथ प्रभविता कुरुभूभुजा श्व ।
 इत्यन्तरा[१] हतशुचेव दिशि प्रतीच्या
  मन्दायमानमहसा रविणा निपेते ॥ २८ ॥
 दिग्धे सतमसै सान्दैर्दिशापदिशचत्वरे ।
 सर्व्रा प्रजास्तदा रा[२]ज्ञा समारुक्षन्डशा तुलाम् ॥ २९ ॥
मनुजावलीनयनवमेने पुनर्मघवादिदेवममभावगोचरा ।
ककुभो विभेजुरमृताशुभानव क्षणमेव त [३]प्रथमशैलरोहिण ॥ ३० ॥


 अनुजाभिरिति । धूत आकारस्य कपटभावजनितचेष्टाया निगूहन आच्छादन येन स तथोक्त स भहीप धृतराष्ट्र अनामयस्य आरोग्यस्य अनुयुक्ते प्रश्नस्य अनुजाभि । आनन्तर्येणोञ्चरिताभिरित्यर्थ । ‘ब्राह्मण कुशल पृच्छेत्क्षत्रबन्धुमनामयम्’ इति स्मरणादिति भाव । ततो राजसूयस्य यो लाभ अनु ष्टान तत्सबन्धिनीभि लालनाभि प्रशसाभि अभिनन्द्य क्ष्लाधित्वा विनीत विनयान्वित धर्मराज सदनाय उपकार्यायै ससर्ज प्रेषितवान् । औपच्छन्दसिकम् ॥२७॥

 तावदिति । तावत् तदानी श्व परस्मिन् दिने मदीयायास्तनो मण्डलस्य भेदिना भटाना अपरावर्तिना अन्तस्य मरणस्य हेतु । ‘द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ । युद्धे परावृत्य मृत शिरो योगाद्भिनत्ति य ॥’ इति स्मरणादिति भाव । कुरूणा कुरुवश्याना भूभुजा राज्ञा पाण्डवाना धार्तराष्ट्राणा च मिथ अन्योन्य वैरं विरोव प्रभविता प्रकर्षेण भविष्यतीति हेतो । अन्त मनसि आहता सगता शुक् दु ख यस्य तेनेवेत्युत्प्रेक्षा । मन्दायमान क्षीयमाण मह तेजो यस्य तेन रविणा सूर्येण प्रतीच्या दिशि निपेते पतितम् । पतेर्भावे लिट् ॥ २८ ॥

 दिग्ध इति । तत सान्द्रै सतमसै तमोभि दिशाना अष्टाना अपदिशाना तन्मध्यभागाना च चत्वरे प्राङ्गणे दिग्धे लिप्ते सति तदा सर्वा प्रजा दृशा अन्धीभूतया राज्ञा तुला वृतराष्ट्रसादृश्य समारुक्षन् प्राप्नुवन् । रुहे कर्तरि लुड् उपमालकार ॥ २९ ॥

 मनुजावलीति। तत अमृताशो चन्द्रस्य भानव किरणा प्रथमशैलात् उदयात् रुहन्तीति रोहिण तस्मादाविर्भूता सन्त त क्षणम् । तस्मिन्नेव क्षण इत्यर्थं । अत्यन्तसयोगे द्वितीया । मनुजावल्या प्रजावृन्दस्य नयनयो वर्त्मने ।


  1. ‘आहित' इति पाठ
  2. ‘राज्ञ ’ इतिपाठ
  3. ‘ता' इति पाठ