तत क्षणादेव सध्यारुणिमकरम्बितेनाम्बरमणिबिम्बेन परिचुस्व्यमाने शम्पायुधहरिदङ्गणे परितो रुधिर[३]वीचीमुचा पिशितपिण्डेन कृतानुषङ्ग रङ्ग विडम्बयति [४]सति शुचा निरस्तमौलिभिर्निग[५]लितवाग्भिर्निष्पन्दतनुभिर्निखिलैरपि पौरैर्नृपतिनिलयद्वार [६] निबिडितमभूत् ॥
निपतितानिति । स वीर भीम स्वेन आत्मना तत्र श्मशाने निपातितान् अतएव उत्पातस्य दुर्निमित्तस्य मुद्रा चिह्न ब्रुवता सूचयता स्वपित्रा वायुना अरण्यतले विरुग्णान् उत्पाट्थ पातितान् तालान् तालवृक्षानिच स्थितान् सूतान् उपकीचकान् निरीक्ष्य सुमनायते स्म । सतुष्टचित्तोऽभूदित्यर्थ । शत्रुशेषनि शेषीकरणादिति भाव । अत्र निपातितोपकीचकावलोकनस्य विशेषणगत्या सतुष्टचित्तत्वहेतुत्वात्पदार्थहेतुक काव्यलिङ्ग तालानिवेत्युत्प्रेक्षया ससृष्टम् ॥ ७७ ॥
गन्धर्वेति । तत्र श्मशाने गन्धर्वात भीमात् भीरुषु अत एव इतरेषु जनेषु विष्वक् अभित पलायनपरेषु सत्सु विमुक्त भीमेन मोचित बन्ध उपकीचककृत यस्या सा कृष्णा द्रौपदी कीचकरिपु भीमश्च तौ द्वावन्योन्य कृता प्रशसा स्तुति भवानेव वीर भवत्येव वीरपत्नीत्यादि याभ्या तथोक्तौ सन्तौ पुन नगर विराटपुर प्रति अभ्यगमता आगतवन्तौ । गमेरभिपूर्वात्कर्तरि लुड् । अत्र गन्धर्वभयस्य विशेषणगत्या जनाना पलायनहेतुत्वात् काव्यलिङ्गभेद ॥ ७८ ॥
तत इति । तत द्रौपदीभीमयो पुरप्रवेशानन्तर क्षणादेव सध्याया प्रात कालिकाया सबन्धिना अरणिम्ना अरुणकान्त्या करम्बितेन व्याप्तेन अम्बरमणे सूर्यस्य बिम्बेन परिचुम्ब्यमाने सयुज्यमाने अतएव शम्पायुधस्य इन्द्रस्य हरिदङ्गणे दिक्प्रदेशे परितो रुधिरस्य वीचीर्मुञ्चन्तीति तन्मुचा पिशित पिण्डेन कीचकमाससमुद्रेन कृत अनुषङ्ग सबन्ध यास्मिंस्तथोक्त रङ्ग नर्तन-