पृष्ठम्:चम्पूभारतम्.pdf/२८६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२८४
चम्पूभारते


 करपल्लवौ परिनिपीडय मृगाक्ष्य
  कळहाय नक्तमशपन्त सुराणाम् ॥ १०० ॥
रराज हैमी रथकेतुराजी रज्यत्पटा रक्तकणै प्रकीर्णौ[१]
आकर्ण्य युद्वद्भुतमर्धमार्गाद्रष्टु निवृत्ता चरमेव सध्या ॥ १०१ ॥

तत्र तावदरिशरनिकृत्तमत्तगजस[२]प्तिरथपतिकुलनवरक्तसिक्त रणचत्वरमनुभूय भूयसा रोषेण सवर्तसमवार्तिसममूर्तिर्हृदि नर्विनधूर्तधार्तराष्ट्रशासनवार्तस्त्रैग[३]र्त कैवर्त इव मत्स्यचक्त्रवर्तिनमाहर्तु मुहूर्तादुपावर्तत ॥


त्सु सत्सु । सुराणा मृगाक्ष्य अप्सरस कलहाय रात्र्या सह वाग्युद्ध कतुमिति 'क्रियार्थं-' इत्यादिना चतुर्थी । करौ पश्वाविव तो परिनिपीडय मिथो मेलयित्वा नक्त रात्रिं अशपन्त । अस्मद्धोगाय दुह्ययन्ती कियच्चिर विलम्बस इत्यादि परुषवाचोऽवदन्नित्यर्थ । सूयमण्डलगमनानुसारेण तेषा स्वगप्राव्त्या यावनक्त तर सभत्रादिति भाव । अत्र नववीरसुराणा गगने विलम्बसबन्धेऽपि तत्सबन्वो- क्तिनपातिशयोक्त सुराङ्गनाना रात्रिशपनासबन्धेऽपि तत्सबन्वरूपातिशयोक्तेश्च द्वयोरङ्गाङ्गिभावेन सकर । सुमङ्गली ॥ १०० ॥

 रराजेति । अय प्रकीण उत्क्षिप्ते रक्तकणै योधाना रुधिरबिन्दुभि रज्यन्त अरुगायमाना पटा पताकावत्राणि यस्या सा हेमी काञ्चनी रथेषु केतुना राजि पङ्क्ति युद्धाद्धुत आकण्य द्रष्टु अर्धमागात् मागमध्यात् निवृत्ता पुनरागता चरमा सध्या सायतनस येवेत्युत्प्रेक्षा । रराज ॥ १०१ ॥

 तत्रेति । तत्र युद्धे । तावदिति वाक्यालकारे । अरीणा शरे निकृत्ताश् छिन्नाना निजाना च इति विशेषणद्वय चतुरश्रेष्मपि योज्यम् । मत्ताना गजाना सतीना अश्वना रथाना सर्वत्र तदारूढाना चेत्यपि पत्तीना पादाताना च यानि कुलानि वृन्दानि तत्पङ्क्ति सबन्धि नव रक्ते सित आद्रित रणचखर युद्धाझण अनुभूय दृष्टा भूयसा महता रोषेण सवर्तसमवतिना प्रलयकालान्तकेन समा मूति शरीर यस्य तथोक्त । रोषभीषणाकृतिरित्यर्थ । हृदि मनसि नतिता पुन पुन स्मर्यमाणा धूर्तस्य वञ्चक्स्य धार्तराष्ट्रस्य दुयोधनस्य शासनवार्ता आज्ञावाक्य येन तथोक । त्रिगर्ताना नाम जनपदाना राजा त्रैगर्त सुशमा कैवर्त मत्स्यग्राहीव मत्स्य चक्रवर्तिन विराट मीनश्रेष्ठ च मुहूर्तात् अल्पकालात् आहर्तु ग्रहीतु उपावर्तत समीपमागतवान् क्ष्लिष्टविशेषणोपमाद्वयस्य मृत्त्यनुप्रासस्य चैक्वाचका नुप्रवेशसकर ॥


  1. ‘शरनिकरनिकृत्त' इति पाठ
  2. ‘सप्तिकुलपत्तिनव’ इति पाठ
  3. “त्रिगत' इति पाठ