पृष्ठम्:चम्पूभारतम्.pdf/२९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२७
प्रथम स्तबक ।

मुनिसुतैरशेषजुषो वने मुहुरमी नवशैशवकेलिषु।
मलिनतामनयन्त कलेवर मदकला कलमा इव धुलिभि ॥ ६० ॥

तत्र तत्र मृदुपासुषु पाण्डो पुत्रपादतलविन्यसनेन ।
छत्रकेतुकुलिशै स्फुटरेखैक्ष्चित्रवत्यभवदाक्ष्त्रमभूमि ॥ ६१ ॥

लीलास्मितै सृ[१] क्कियुगाद्गलद्भिर्लालाजलाना पृ[२]षतैर्बृहद्भि।
बाला दधुस्ते हृदि मौकक्तिकाना माला धुतोल्लेखनरन्ध्रसूत्रा ॥ ६२ ॥

अत्यन्तबाल्यादमृतायिताभिरन्योन्यमर्धोक्तिभिराह्वयत्सु । स भीमसेनोऽजनि पा[३]ण्डुपुत्रेष्वर्धोक्तनामापि च पूर्णनामा ॥ ६३ ॥


 मुनिसुतैरिति । अमी युधिष्ठिरादयो मुनीना सुतैर्बामलकैरविशेष तारतम्य राहित्य जुषन्त इति तथोक्ता । तत्तुल्या सन्त । नवासु शैशवकेलिषु बाल्योचितक्त्रीडासु वने मदकला मदोत्कटा कलभा इव गजशावका इव धुलिभिपासुभि कलेवरं शरीरं मलिनता मालिन्य मुहुरनयन्त प्रापितवन्त । पासुक्रीडयेति भाव् । नयतेर्दुह्यादित्वाद्विकर्मकत्वम्। उपमालकार ॥

 तत्रेपि । आश्रमभूमि । मृदव पासव सूक्ष्मरजासि येषु तेषु तत्र देशेषु पाण्डो पुत्राणा पादयोस्तलानामध प्रदेशाना विन्यसनेन क्षेपणेन हेतुना स्फुटा रेखा लेखाकारा येषा तैश्छत्रकेतुकुलिशैक्ष्वित्रवती आलेख्यवतीवाभवदिति गम्योत्प्रेक्षा । व्यञ्जकात्रयोगात् ॥ ६१ ॥

 लीलेति । ते बाला लीलायुक्त स्मित येषु तै सृक्किणोरोष्ठप्रान्तयो युगाद्गलद्भिर्बृहद्भि स्थुलैर्लालाजलाना पृषतैर्बिन्दुभि । 'सृणिका स्यन्दिनीलाला' , 'पृषन्ति बिन्दुपृषतौ',इत्युभयत्राप्यमर । घुतानि त्यक्तान्युल्लेखनमुत्तेजन रन्ध्र सुत्र च तानि यासा ता मौक्तिकाना माला ह्रदि वक्षसि दधुरिवेति गम्योत्प्रेक्षा ॥

 अत्यन्तेति । अत्यन्तबाल्याद्धेतो । अमृतवदाचरन्तीभिरमृतायिताभि । तद्वन्मधुरामिरिति यावत् । अर्धोक्तिभिर्युधिष्ठिरभीमार्जुन इत्यादीनामर्धभागै पाण्डुपुत्रेष्वन्योन्यमाह्वयत्सु सत्सु स प्रसिद्वो भीमसेनोऽर्धमुक्त नाम यस्य तथोक्तोऽपि पुर्णे सपूर्णमुक्त नाम यस्य तथोक्त अजन्यभूतू । 'विनापि प्रत्यय पूर्वोत्तरपदयोर्लेपो वाच्य्' इति सेनपदस्य लोपेन तस्य सर्वार्थबोधकत्वादिति भाव ॥ ६३ ॥


  1. सृक्कयुगात्’ इति पाठ
  2. ’ललितै पृषद्भि’ इति पाठ
  3. ’पाण्डुसूनुषु’ इति पाठ