मातुर्मुख मम पुर पुर ए[१]व तिष्ठ- |
इति ब[३]हु विलप्य प[४]दयो प्रणिपतन्त त नृपसुतमपराङ्गे करपुटेन मुहुरा[५] स्फालयन्सस्मित गिरम[६]मत्यपतिसुतोऽपि प्रवर्तयामास ॥
मातुरिति । कि च उत्कण्ठितस्य मातृदर्शनोत्सुकस्य मम मातुर्मुख पुर पुर अग्रेऽग्र एव तिष्ठति । चक्षुषोर्बद्धमिव पश्यामीत्यर्थ । हे कृपालो करुणाशीले बृहन्नले, तस्या मातु सविध समीप प्रति मा नय प्रापय । एव चेदिति योज्यम्। ‘भीताद्युक्तिषु न्यूनपदत्व न दोषाय' इत्यालकारिका । मम कोशगृहे यावन्ति कनकानि सन्ति तावद्भिरेव कनकै सवित्री मन्माता वा अभिषेक्ष्यति । तवाभि- षेक करिष्यतीत्यर्थ । पुत्रदात्रे कि न देयमिति भाच ॥ २५ ॥
एतावती चेद्धीतिस्तदा किमित्यागतोऽसीत्यत आह--चित्र इति । अइ चित्रे युद्ध विलोक्य चापलात् तद्वदेतदपीति भ्रमात् एत्य आगत्य । तत्र चित्रे असद्धि अविद्यमानै । अचेतनत्वादिति भाव । इह वास्तवयुद्धे उद्यद्भि जृम्भमाणै क्ष्वेलाभि वीराणा सिंहनादै , हेषितै अश्वाना कोलाहलै , बृहितै गजाना घींकारै , वञ्चित । प्राणसशयमापन्नोऽस्मीत्यर्थ । भ्रान्तस्य सर्वत्रैव नानुकूला प्रवृत्तिरिति भाव । अतएव विषमालाकार अनर्थोत्पत्तिरूप ॥ २६ ॥
यथेति । अह भूतल त्यक्त्वा उच्छ्रित रथ यथा आरुक्ष आरूढवानस्मि । आङ्पूर्वाद्रुहे कर्तरि लुड्। तथा प्राण । ममेति शेष । हृद वक्षस अन्तर म यभाग मुक्त्वा कण्ठ हृदन्तरादुन्नत अधिरोहतीवेत्युत्प्रेक्षाव्यञ्जकाप्रयोगाद्रम्या। कण्ठगतप्राणोऽह जहीहि । मा पलायनायेत्यर्थ ॥ २७ ॥
इतीति । इति इत्थ बहु नि सारवाक्य विलप्य पदयो प्रणिपतन्त नमस्कुर्वन्त त नृपसुत उत्तर अपराङ्गे पृष्ठे करपुटेन मुहुरास्फालयन्। मा भैषीरिति सशब्द परामृशन् सन् । अमर्त्यपते इन्द्रस्य सुत अर्जुनोऽपि गिर वाच सस्मित प्रवर्तयामास । उवाचेत्यर्थं ।