पृष्ठम्:चम्पूभारतम्.pdf/३३१

एतत् पृष्ठम् परिष्कृतम् अस्ति
३३१
अस्तम स्तबक ।

 [१]दनु निखिलमहरारम्भकृत्यमवसाय्य बालातपेन बलाहक इव घुसृणमसृणितेन पटीरपङ्केन चर्चितकलेवर पङ्केरुहशङ्किनीमिरञ्चललिखितराजहसराजिभिरवकृष्यमाणेनेव पीताम्बरभागेन परिचुम्बितप्रपदपल्लवो निजोदरान्तरानवकाशतया [२]बहिर्निर्गतेर्जगदण्डशिशुभिरिव मुक्ताफलै प्रत्युप्तमेखलामुखभागो वर्षाहेमन्तसमययोरप्यविनश्वर लक्ष्मीलीलाकमलमुप[३]श्लोक्रितुमागतेन दिनमणिबिम्बेनेव कौस्तुभेन देदीप्यमानभुजान्तरो दनुजपरिषदु[४]त्पातरक्तपरिवेषेणेव पद्मरागकेयूरेण परिमण्डितभुज[५]दण्डो


श्रीकृष्ण सध्याया प्रात कालिकाया औपयिक युक्त कृत्य वन्दनादिक समाप्य कृत्वा सधे कुरूणा पाण्डवै सह सवानस्य औपयिक कृत्य धृतराष्ट्रादिभि सह आलोचनमपि समापयिष्यन् करिष्यमाण सन् विदुरस्य हस्त आलम्ब्य गृहीत्वा निकेतात् शयनगृहात् मन्द सविलास यथा तथा निरगात् बहिरागतवान् ।“तमसा कुलानि-इत्यादिश्लोकपञ्चक गद्यमेकं च बहुषु मूलपुस्तकेषु सदर्भविरुद्धक्रम दृष्ट यथासदभानुरोध व्यारयातामिति ध्येयम् ॥ २९ ॥

 तदन्विति । तदनु शयननिर्गमनानन्तर निखिल अह वासरस्य आरम्ने आदौ । प्रात काल इति यावत् । यत् कृत्य स्नानसध्यावन्दनादिक तत् अवसारय समाप्य बालातपेन बलाहक मेघ इव घुसृणेन कुङ्कुमेन मसृणितेन मिश्रितेन पटीरपङ्केन चन्दनेन चर्चित लिप्त कलेवर देह यस्य तथोक्त पङ्केरुह अरुणकमलमिव शङ्कन्त इति शङ्किनीभि अञ्चले अन्तभागे लिखिताभि चित्रिताभि राज हसाना राजिभि पङ्किभि अवकृष्यमाणेन अधोनीयमानेनेव स्थितेन पीताम्बरस्य भागेन प्रान्तदेशेन परिचुम्बित स्पृष्ट प्रपद पादाग्र पल्लवमिव यस्य तथोक्त । निजस्य उदरस्य कुक्षे अन्त मध्ये न विद्यते अवकाश येषा तेषा भाव तत्ता तया हेतुना।असख्येयत्वादिति भाव । बहि निर्गतै जगदण्डाना ब्रह्माण्डाना शिशुभिरिव स्थितै मुक्ताफ़्लै प्रत्युप्त सधटित मेखलाया काञ्चया मुखभाग अग्रदेश यस्य तथोक्त । वर्षासमये च द्वयोरपि अविनश्वर अक्षीणशोभमित्यर्थ । प्रभावादिति भाव । लक्ष्म्या वक्ष स्थिताया लीलाकमल उपश्लोकितु स्तोतु आगतेन दिनमणे सूर्यस्य बिम्बेनेव स्थितेन कौस्तुभेन रत्नेन देदीप्यमान भुजान्तर वक्ष यस्य तथोक्त । तदनुजपरिषद राक्षसकुलस्य उत्पातेन दुनिमित्तेन रक्तपरिवेषेणेव स्थितेन पद्मरागमयेन केयूरेण अङ्गदेन । ’उत्पातालातचक्ररक्तपारिवेषाभ्यामिव केयूराभ्याम्’ इति पाठान्तरम् । परिमण्डितौ अलकृतौ भुजौ दण्डाविव यस्य


  1. ‘अपरेयुरखिल, ‘अयेयुरखिल’ इति च पाठ
  2. ‘बहिर्बनै ’ इति पाठ
  3. ‘उपश्लोकथितुम्' इति पाठ
  4. ‘औत्पातिक’ इति पाठ
  5. ’बाहुदण्डो द्वारि’ इति पाठ