पृष्ठम्:चम्पूभारतम्.pdf/३७६

एतत् पृष्ठम् परिष्कृतम् अस्ति
३७६
चम्पूभारते


दष्ट्रतोचि शलाकास्तुमुलमवकिरन्दिक्षु सर्वासु घोरा
 शीताशु मध्यसीम्नि स्थितमिव परिधे सिहिकाया कुमार ॥ १२ ॥

 [१]दनु तदीयमार्गणगणाभिघातनिवर्तितमुखैर्निजशिलीमुखै सह दूरमपयातान्मातरिश्ववैश्ववैक्ष्वनेयतनभृतीन्क्षितिपतिर[२]क्षिण प्रवीरानभिवीक्ष्य[३] क्षणेन माधवधाव्यमानतु[४]रगेण शताङ्गेन प्लवगकेतनो नगेन्द्रो नदीप्रवाहमिव निनि[५]वाररथचर्यं तमाचार्यमुपरुरोध

,

शिवयुद्धक्रुतस्तस्य द्रोणयुद्धेऽप्यभून्मन ।
सर्वापि जनता श्रेय का[६]ङ्कते हुत्तरोत्तरम् ॥ १३ ॥
,


विमुञ्चन् भारद्वाज द्रोण परिधे परिवेषस्य मध्यसीम्नि स्थित शीता चन्द्र जिघृक्षु प्रसितुमिच्छु अतएव घोरा दष्ट्राणा दन्ताना रोचीषि तेजासि शलाका इव ता सर्वासु दिक्षु तुमुल सकुल यथा तथा अवकिरन् प्रसारयन् सिहिका राहुमाता तस्या कुमार राहुरिव अभिययौ समीप प्राप्तवान् । घोरा सर्वासु दिक्ष्विति भवदृष्टिष्वपि योज्यम् । पूर्णोपमालकार । स्रग्धरा ॥ १२ ॥

 तदन्विति । तदनु तस्य द्रोणस्य इमे तदीया मार्गणा बाणा तेषा गणस्य अभिघातेन प्रत्याहत्या निवातितानि व्यावतितानि मुखानि शल्यभागा येषा तैनिजै शिलीमुखै बाणै सह दूर अपयातान् पलायितान् मातरिक्ष्वतनय मारुति भीम , वैश्वानरतनय अग्निप्रभव धृष्टधुम्न , आश्विनेयतनयौ अश्विपुत्रौ नकुलसहदेवौ, ते प्रभृतय तेषा तान् क्षितिपति धर्मराज रक्षन्तीति रक्षिण द्रोणात्पालयीतद्द्न् प्रवीरान् अभिवीक्ष्य प्लवग हनुमान् केतने यस्य स अर्जुन निर्नेि- वारा दुर्निरोधा रथस्य चर्चा गमन यस्य त रथस्येव चर्या यस्येति च त आक्षि तिपतिग्रहणप्रवण आचार्य द्रोण नगेन्द्र शैलश्रेष्ठ नदीप्रवाहमिव माधवेन श्रीकृष्णेन धाव्यमाना तुरगा यस्मिस्तेन शताङ्गेन रथेन उपलक्षित अतएव क्षणेन उपरुरोध निरुद्धवान् । उपमाळकार ॥

 शिवेति । शिवेन शभुना सह मानपात्रविशेषेण च युद्ध करोतीति कृत तस्य अर्जुनस्य मन । मनोरथ इत्यर्थ । द्रोणेन सह मानपात्रेण च युद्धे विष येऽपि अभूत् । हि यस्मात् सर्वोपि जनता जनसमूह उत्तरादुत्तर श्रेष्ठात् श्रेष्ठतर उपर्युपरीति वा श्रेय काङ्क्ष्ते । सामान्येन विशेषसमर्थनरुपोऽर्थान्तरन्यास । श्लेषभि त्तिकाभेदाध्यवसायमूलातिशयोक्त्तयुज्जीवित इति द्वयोरङ्गाङ्गिभावेन सफर ॥१३॥


  1. ‘तत ’ इति पाठ
  2. ‘रथरक्षिण ’ इति पाठ
  3. “वीक्षमाणेन माधवेन' इति पाठ
  4. 'तुरगेण प्लवग' इति पाठ
  5. ‘दुर्निरोधरथचर्यमाचाय'इति पाठ
  6. काङ्क्ष्ति इति पाठ