पृष्ठम्:चम्पूभारतम्.pdf/३९६

एतत् पृष्ठम् परिष्कृतम् अस्ति
३९६
चम्पूभारते


नन्दन समरोचितवेषसपदविकलेन निजबलेन सह प्रतिष्ठमानो नि[१]रूद्धवियत्पथै रथैर्मदबन्धुरै सिन्धुरैर्विविधगतिनाटकैर्घोटकै कृतरणासत्तिभि प[२]त्तिभिर्विरचितपरिपन्थिजनमोहस्य व्यू[३]हस्य पृष्ठभागे जयद्रथ प्रतिष्ठाप्य स्वयमपि पुरोभाग परिष्कुर्वाणस्य द्रोणस्य चरणचोर्बाणाभ्या [४]प्रणीतप्रणिपातस्तेन दीयमानमार्गावकाशश्चण्डमारुत इव [५]घनमण्डल तमेव व्यूह क्षणादेव क्षोभयामास ॥

तदनन्तरम् ।

,

सशप्तकासुरपळायनवेगभङ्गी
 तत्तादृशीमभिनयन्निव शौरिनुन्न ।
वेगेन विस्मयकरेण विरोधिसैन्ये
 विष्वक्चचार विजयस्य शताङ्गवर्य ॥ ५९ ॥
,


रुह्य सक्रन्दननन्दन अर्जुन समरस्य अनुरूपया वेषसपदा अल- कारसमृध्द्य अविकलेन पूर्णेन निजबलेन चतुरङ्गेण सह प्रतिष्ठमान गच्छन् सन् । मदेन दानजलेन बन्धुरै व्याप्तै सिन्धुरै गजै विविधा गती आस्य न्दितादी नाटयन्ति प्रकटयन्तीति नाटकै घोटकै अक्ष्वै निरुद्ध वियत्पथ आकाशमार्ग यैस्ते । अत्युन्नतैरित्यर्थ । रथै कृता रणस्य आसत्ति सबन्ध यैस्तै पत्तिभि पादातैश्च विरचित कृत परिपन्थिजनस्य शत्रुजनस्य मोह चित्तविकार येन तथोक्तस्य व्यूहस्य पद्माद्यकारस्य सेनाविन्यासस्य पृष्ठभागे जयद्रथ सैन्धव प्रतिष्ठाप्य निवेशयित्वा स्वय आत्मनापि पुरोभाग व्यूहमुखभाग परिष्कुर्वाणस्य अलकुवैत । तत्र वसत इति यावत् । द्रोणस्य आचार्यस्य चरणयो बाणाभ्या प्रणीत प्रापित प्रणिपात नमस्कार येन तथोक्त्त सन् । नमस्कारबाणौ प्रयुज्येत्यर्थ । अतएव तेन नमस्कृतेन द्रोणेन दीयमान मार्गस्य व्यूहम यप्रवेशकस्य अवकाश अन्तर यस्य तथोक्त्तश्च सन् तमेव व्यूह चण्डमारुत घनमण्डल मेघबृन्दमिव क्षणादेव क्षोभयामास ॥

 तदनन्तरमित्युत्तरेणान्वय ॥

 सशप्तकेति । शौरिणा श्रीकृष्णेन नुन प्रेरित अत एव तत्तादृशी असदृशीं सशप्तका असुरा इव तेषा पलायने यो वेग तस्य भङ्गीं रीतिं अभिनयन् विडम्पयन्निव स्थित इत्युत्प्रेक्षा । विजयस्य अर्जुनस्य शताङ्गवर्य


  1. रुद्ध' इति पाठ
  2. ‘पत्तिभिश्च' इति पाठ
  3. ‘पअव्यूहस्य’ इति पाठ
  4. ‘प्रणिहित’ इति पाठ
  5. ‘मेघमण्डल' इति पाठ