पृष्ठम्:चम्पूभारतम्.pdf/४३१

एतत् पृष्ठम् परिष्कृतम् अस्ति
४३१
एकादश स्तबक ।


,

 कुण्डलीकृतकोदण्डश्चण्डभानुतनूभूव ।
 ताण्डव विदधे पाणि पाण्डवाना बळान्तरे ॥ ३७ ॥
युद्वे हतो योधसमूह एष बिम्ब पितृर्मे बत भेत्स्यतीति ।
मत्वेव पत्युर्महसा कुमार सछादयामास दिव शरौघे ॥ ३८ ॥
 करीन्द्रमण्डले पेतु कर्णमुक्ता शरब्रजा ।
 सदानाम्बु कर यान्ति स्थूललक्ष्य हि मार्गणा ॥ ३९ ॥
प्रकाश्य कर्णे युधि कालपृष्ठ भयकराभे चलति प्रवीरे ।
तदीयभल्लैर्दलिता परेऽपि प्रकाश्य चेलुर्बत रक्तपृष्ठम् ॥ ४० ॥
,


दारुण योद्धु सनद्धवानित्यथ । अत्र पुत्रवधाकर्णनस्य विशेषणगत्या शत्रुदिधक्षा हेतुत्वात्पदार्थहेतुक काव्यलिङ्गम् । औपच्छन्दसिकम् ॥ ३६ ॥

 कुण्डलीकृतेति । तत चण्डभानुतनूभुव कर्णस्य पाणि कुण्डलीकृत गुणाकर्षणेन मण्डलित कोदण्ड कालपृष्ठ येन तथोक्त सन् पाण्डवाना बलान्तरे सेनामध्ये ताण्डव नर्तन विदधे चकार । गुणाकर्षणत्यागाभ्यामिति भाव । अनुप्रासभेद शब्दालकार ॥ ३७ ॥

 युद्ध इति । युद्धे हृत एष योधाना पाण्डवीयाना समूह मे मम पितु सूर्यस्य बिम्बम् । बतेति खेदे । भेत्स्यति बहूना युगपन्निर्गमने सबाधाद्विदारयिष्यति इति मत्वा सभाव्येवेत्युत्प्रेक्षा । महसा तेजसा पत्यु सूर्यस्य कुमार कर्ण शरौघै दिव अन्तरिक्ष सछादयामास आच्छादितवान् । इन्द्रवज्रा ॥ ३८ ॥

 करीति । कर्णेन मुक्त प्रयुक्ता शरघजा बाणसधा शरवदर्थाशया ब्रजन्तीति याचकाश्च करीन्द्रमण्डले गजवृदे करिणामिन्द्रस्य बहुगजवतो राज्ञो मण्डले राष्ट्रे च पेतु प्रविविक्षु । तथा हि मार्गणा याचका बाणाश्च एकस्माद्वदान्यान्मुक्त्त दानाम्बुना उत्सर्गजळेने मदोदकेन सहित सदानाम्बु कर शुण्डा च यस्य तथोक्त स्थूललक्ष्य बहुप्रद स्थूल पृथुल लक्ष्य शरव्य च यान्ति । अत्र याचकशरयो दानजलमदजलयो हस्तशुण्डयोर्बहुप्रदपृथुळलक्ष्ययोश्च क्ष्लेषभितिक्राभेदाध्यवसायलब्धसामान्येन विशेषसमर्थनादर्थान्तरन्यास । तेन निसर्गदातृ कर्णस्य याचकाशाविघातेन गतप्रायताप्रतीतेरलकारेण वस्तुध्वनि । ‘दान वितरणे हस्ते मदे स्यात्खण्डनेऽपि च’, ‘बळिहस्तमयूखेषु करो गजकरेऽपि च’, ‘लक्ष लक्ष्य शरव्ये च सस्यभेदे च गोचरे’, ‘मार्गणो याचके बाणे भवेदन्वेष्टरि त्रिषु’ इति सर्वत्र कोशा ॥ ३९ ॥

 प्रकाश्येति । भयकरी आभा तेज यस्य तस्मिन् प्रकृष्टे वीरे कर्णे कालपृष्ठ धनु कालस्य रिपूणा जीवितकालस्य पृष्ठ चरमभाग अन्त चेति यावत् । प्रकाश्य प्रकटय्य चलति सति तदीयै कर्णसबन्घिभि भल्लैर्नाम बाणै दलिता पाटिता परे शत्रवोऽपि रक्त्त शरव्रणशोणितारुण पृष्ठ शरीरपश्चाद्भाग तन्नामक धनुश्च