पृष्ठम्:चम्पूभारतम्.pdf/४४५

एतत् पृष्ठम् परिष्कृतम् अस्ति
४४५
द्वादश स्तबक ।

 तत्रागतेषु युधि तेषु तपोधनोऽय-
  मेकोऽपि धीरतरधीरिषुवर्षुकेषु।
 निष्पाण्डवास्तु वसुधेति निजव्रतेन
  साक व्यमुञ्चदभिमन्य जवादिषीकाम् ॥ १८ ॥
 अथ ब्रह्मशिरोस्त्रस्य प्रहितस्य किम्रटिना।
  योगात्तूळपदस्येव हृस्वभाव जगाम सा ॥ १९ ॥
अथाहृतो मारुतिना हठेन भग्नस्य शीर्षाद्धरुनन्दनस्य ।
दत्तो मणि पार्षतनन्दनाया शोकाग्निदाहप्रतिबन्धकोऽभूत् ॥ २० ॥


दर्शनेन च । दूर नि शेष यथा तथा उत्सारयितु निवारयितु उत्सुक इवेत्युत्प्रेक्षा । गुरुसुतस्य अश्वत्थाभ्र आहरणाय । आहर्तुमित्यथ । ‘तुमर्थाच्च भाववचनात्' इति चतुर्थी । शताङ्ग रथ अधिरूह्य मौर्वी विस्फारयद्भि टकारयद्भि मघवत्कुमार अर्जुन आदि येषा तै अर्जुननकुलसहदेवै मासलिता पूर्णा पार्श्वभागा यस्य स मारुति भीम तपस्यत तप कुर्वत तस्य पुत्रहन्तु अश्वत्थाम्न एव आश्रमपदभाग प्रतस्थे प्रस्थितवान् । अत्रोक्त्तोत्प्रेक्षाया मूर्च्छान्धकारमित्यादिरूपकद्वयोज्जीविनत्वात्तयोरङ्गाङ्गिभावेन सकर ॥

 तत्रेति । तत्र आश्रमपदे आगतेषु इषुणा आणाना बधूकेषु तेषु भीमादिषु युधि धीरतरा अत्यन्त धीरा धी मनो यस्य तथोक्त । अतएव स्वयमेकोऽपि सन्नय तपोधन अश्वत्थामा जवात् अभिमन्य इषीका नाम अस्त्र अद्यप्रभृति वसुधा भूमि निष्पाण्डवा पाण्डुसततिशून्या अस्तु इति । शस्त्वेति शेष । निनेन व्रतेन साक तपोबलेन सह व्यमुञ्चत् सत्यक्तवान् । शापस्य तप क्षयकरत्वादत्रातिधैर्यस्य विशेषणगत्या स्वस्यैकाकित्वेऽप्यनेकेषु युद्धोद्यम प्रति हेतुत्वात्पदार्थहेतुककाव्यलिङ्गनिजव्रतेन साकमिति सहोक्त्तेश्चाङ्गिभावेन सकर । वसन्ततिलका ॥ १८ ॥

 अथेति । अथ किरीटिना अर्जुनेन प्रहितस्य अश्वत्थामास्त्रोपसहारार्थे प्रेर्युक्तस्य ब्रह्मशिरोनाम्न अस्त्रस्य तूलमिति पद शब्दस्येव योगात् प्रत्याघातात् उत्तरपदत्वेन सबन्धाच्च सा इषीका अस्त्रम् इषीकाशब्दश्च हस्वभाव अल्पत्व हस्वान्तत्व च । जगाम प्राप्नोति स्म । तूलपदयोगादिषीकाशब्द यथा इषीकतूलमिति हस्वान्तो भवति तथा ब्रह्मशिरोस्त्रयोगादैषीकास्त्रमुपसहृतमासीदित्यर्थ । अत्र ‘इष्टकेषीकामालाना चिलतूलभारिषु' इति अनुशासनाद्वाच्यवाचकयोरभेदाञ्चोक्त्तोपमाप्रसाधनीयेति ध्येयम् ॥ १९ ॥

 अथेति । अथ भग्नस्य पराजितस्य गुरुनन्दनस्य अश्वत्थाम्न शीर्षात् शिरस मारुतिना भीमेन हठेन बलात्कारेण आहत छित्त्वा आनीत दत्तश्च मणि चूडारत्न पार्षतनन्दनाया द्रौपद्या शोक एवाग्नि तस्य दाहे कर्मणि प्रतिबन्धक नाशक अभूत् । मणेर्दाहप्रतिबन्धकत्व प्रसिद्धम् । पुत्रघातिनो द्रौणे शिर कल्प- ३८