पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
चारुदत्ते

विभवेण गिहदेवदाणि अच्चअन्तो इदो एव्व आअच्छदि । जाव णं उवसप्पामि । (निष्क्रान्तः ।)

( ततः प्रविशति वलिमुपह्रनाथको विदृषकश्चाङ्गरिकॉहस्ता चेटी च)

 नायकः-- (दीर्घ निःश्चम्य) भोः ! दारिद्यं खलु नाम मनस्विनः पुरुषम्य सोच्छवासं मरणम् । कुतः,

यासां बलिर्भवति गृहदेहलीनां
 हंसश्च सारसगणेश्च विभक्तपुष्पः ।
तास्वैव पूर्ववलिरूढयवाङ्करासु
 बीजाञ्जलिः पतति कीटमुखावलीटः ॥ २ ॥

 विदूषकः -- (क) अळं दाणि भवं अदिमत्तं सन्तप्पिदं। पुरुसजोब्बणाणि विअ गिहजोब्बणाणि खु दसाविसेसं अणुहोन्ति । आसमुदआणविपण्णविभवस्म बहुळपक्खचन्दस्स जोहापरिक्खओ विअ भवद एव्व रमणीओ अझं दरिदभावो।

 नायकः-न खन्वहं नष्टां श्रियमनुशाचामि । गुणरसज्ञस्य तु पुरुषस्य व्यसनं दारुणतरं मां प्रतिभाति । कुतः,

प्रभातचन्द्र इव सकरुणप्रियदर्शनो यथाविभवेन गृहदेवतान्यर्चयन् इत एवागच्छति । यावदेनमुपसर्पमि ।

(क) अलमिदानीं भवानतिमात्रं सन्तप्तुम् । पुरुषयौवनानीव गृहयौवनानि खन्नु दशाविशेषमनुभवन्ति । असमुद्रयानविपन्नविभवस्य बहुलपक्षचन्द्रस्य ज्योत्स्नापरिक्षय इव भवत एव रमणीयोऽयं दरिद्रभावः ।

१. कां गृह्न्वा च ख्, पाठः,