पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रथमोऽङ्कः

सुखं हि दुःखान्यनुभूय शोभते
 यथान्धकारादिव दीपदर्शनम् ।
सुखात्तु यो याति दशां दरिद्रता
 स्थितः शरीरेण मृतः स जीवति ॥ ३ ॥

 विदूषकः - (क) भो वअस्स ! समुदपट्टणसारभूदो तादिसो अत्थसञ्चओ कहिं गओ ।  नायकः --- (निःश्वस्य) वयस्य ! यत्र गतानि में भागधेयानि । पश्य ,

क्षीणा ममार्थाः प्रणयिक्रियासु
 विमानितं नैव परं स्मरामि ।
एतत्तु मे प्रत्ययदत्तमून्यं
 सत्त्वं सखे ! न क्षयमभ्युपंति ॥ ४ ॥

(चिन्तां नाटयति ।)

 विदूषकः--(ग्व) किं भवं अन्यविभवं चिन्तेदि ।

 नायकः-

सत्यं न मे धनविनाशगता विचिन्ता
 भाग्यक्रमेण हि धनानि पुनर्भवन्ति ।
एतत्तु मां दहति नष्टयनश्रिया में
 यत् सोहदानि मुजन शिथिलीभवन्ति ॥५॥

(क) भी वयस्य! समुद्रपत्तनमारभूतम्तादृशाश्रयः क गनः ।

(ख) किं भवानर्थविंभवं चिन्तयनि ।