प्रथमोऽङ्कः ।
विटः-वसन्तसेने! सर्वत्र भयानभिज्ञहृदयं मां कुरु । श्य,
परिचिततिमिरा मे शीलदोषेण रात्रि-
र्बहलतिमिरकालास्तीर्णपूर्वा विघट्टाः ।
युवतिजनसमक्षं काममेतन्न वाच्यं
विपणिषु हतशेषा रक्षिणः साक्षिणो मे ॥ १३ ॥
गणिका ---(क) हं इदाणिं संसइदा संवुत्ता, 'जो अपगुणाणि सअं एब्व मन्तेदि । कहं एदे अकय्यं ण करि- स्सन्दि ।
विटः--भवति ! क्रियतामस्माकमनुनयप्रग्रहः । पश्य,
जनयति खलु रोष प्रश्रयो भिद्यमानः
किमिव च रुपितानां दुष्करं महिधानाम् ।
अनुनयति समर्थः खड्गदीर्घः करोऽयं
युवतिवधघृणाया मां शरीरं च रक्ष ॥ १४ ॥
गणिका-- (ख) अणुणओ वि खु से भाएदि ।
(क) हम् इदानी संशयिता संवृत्ता, य आत्मगुणान स्वयमेव मन्त्रयते । कथमेतेऽकार्य न करिष्यन्ति ।
(ख) अनुनयोऽपि खल्वस्य भायनि ।
- 'विघट्टा विमागी इत्यर्थः 'जो' इत्यस्य प्रतिनिदेश्य सेनेति हेनुतृतीयान्तं संशयितापदेन योज्यम् ।