पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४
चारुदत्ते

 शकारः-(क) क्शञ्चशेणिए ! शुद्ध भावे भणाशि । बहुमण्णिअदि खु दाव बळिअजणदुळ्ळहे अणुणए । पेक्ख वाशु!

 अशि क्खु तीक्खे शिहिगीवमेअए
  खिवेमि शीशं तव माळए हवा ।
 अळं तु अह्माळिशकाणि कोशिअ
  मडे खु जो होइ ण णाम जीवइ ॥ १५ ॥ .

 गणिका - (ख) अय्य! कुळउत्तजणस्स सीळपरितोसोवजीविणी गणिआ खु अहं ।

 विटः-अतः खलु प्रार्थ्यसे ।

 गणिका-- (ग) अय्य ! इमादो जणादो किं इच्छीअदि सरीरं वा आदु अलङ्कारो वा।

 विटः-- न पुष्पमोक्षणमर्हति लता । कृतमलङ्कारेण ।

 (क) वसन्तसेने! सुष्टु भावो भणति । बहुमान्यते खलु तावद् बलवज्जनदुलभोऽनुनयः । पश्य वासु !

 असिः खलु तीक्ष्णः शिखिग्रीवामेचकः क्षिपामि शीर्ष तव मारयेऽथवा । अलं त्वस्मादृशकान् रोषयित्वा मृतः खलु यो भवति न नाम जीवति ॥ १५॥

 (ख) आर्य! कुलपुत्रजनस्य शीलपरितोषोपजीविनी गणिका खल्वहम् ।

 (ग) आर्य! अस्मान्जनात् किमिष्यते शरीरं बाथवालङ्कारो वा ।


१. 'क्षम' ख. पाठ:.