पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५
प्रथमोऽङ्कः

 गणिका--- (क) अहं खु दाणि अत्ताणं ण सन्दावेअं।

 शकारः --- (ख) वशञ्चशेणिए! अहं भट्टिपुत्ते कामदवे ।

 गणिका-(ग) सन्तो सि ।

 शकारः-- (घ) शुणाहि भावे ! शुणाहि । एशा वशञ्चशेणिआ मं शन्तो शि त्ति भणादि ।

 विटः--- (आत्मगतम् ) आक्रुष्टमात्मानं न जानाति मूर्खः । ध्वंस इत्युक्ते श्रान्त इत्यवगच्छति । अपिच,

 अभिनयति वचांसि सर्वगात्रैः
  किमपि किमप्यनवेक्षितार्थमाह ।
 अनुचितगतिरप्रगल्भवाक्यः
  पुरुषमयस्य पशोर्नवावतारः ॥ १६ ॥

(प्रकाशम् ) वसन्तसेने! किमिदं मत्मन्निधौ वशवासविरुद्धमभिहितम् । पश्य,

 तरुणजनसहायश्चिन्त्यतां वेशवासो
  विगणय गणिका त्वं मार्गजाता लतेव ।


 (क) अहं खल्विदानीमात्मान न सन्तापयेयम् ।

 (ख) वसन्तसेन! अहं भर्तृपुत्रः कामयिनन्यः ।

 (ग) शान्तोऽसि ।

 (घ) शृणु भाव! शृणु । एषा बसन्तसेना मां श्रान्तोऽसीति भणति ।