पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९०
प्रथमोऽङ्कः

 विटः-- हन्त वञ्चिताः स्मः । वसन्तसेने! उपलब्धेदानीमसि ।

 कामं प्रदोषतिमिरेण (न) दृश्यसे त्वं
  सौदामनीव जलदोदरसन्निरुद्धा।
 त्वां सूचयिष्यति हि वायुवशोपनीतो
  गन्धश्व शब्दमुखराणि च भूषणानि ॥ १८ ॥

(गणिका मालामपनीय भूपणानि चोत्मारयति ।)

 विटः- अहो बलवांश्चायमन्धकारः । सम्प्रति हि .

 लिम्पतीव तमोऽङ्गानि वर्पतीवाञ्जनं नमः ।
 असत्पुरुषसेवेव दृष्टिनिष्फलतां गता ॥ १९ ॥

 अपिच,

 सुलभशरणमाश्रयो भयानां
  वनगहनं तिमिरं च तुल्यमेव ।
 उभयमपि हि रक्षनेऽन्धकारो
  जनयति यश्च भयानि यश्च भीतः ॥ २० ॥

 तथाहि-

 आलोकविशाला मे
  सहसा तिमिरप्रवेशसञ्छन्ना।
 उन्मीलितापि दृष्टि-
  निमीलितवान्धकारेण ॥ २१ ॥

परम्मैपदमपेक्षितम।