पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८
चारुदत्ते

 गणिका ---- (क) अम्महे भित्तिपरिणाममइदं पक्यदुवाळं । असम्भोअमळिणदाए इह अहिअं अन्धआरो । ना इह एव्व चिट्ठिस्सं । (स्थिता ।)

 नायकः-- मैत्रेय ! गच्छ, चतुष्पथे बलिमुपहर मातृभ्यः ।

 विदूपकः- (ख) ण मे सहा , अण्णो गच्छदु।

 नायकः - किमर्थम् ।

 विदूषकः --- (ग) मम बुद्धी आदंसमण्डळगआ विअ छाआ वामेमु दक्षिणा दक्षिणेसु बामा होइ ।

 नायकः- मूर्ख! यथाविभवनाय॑ताम् । भक्त्या तुप्यन्ति देवतानि । तद् गम्यताम् ।

 विदृषकः --(घ) एआई अहं कहं गमिस्सं ।

 नायकः----- सदनिक ! अनुगमछात्रभवन्तम् ।

(क) अहो भित्तिपरिणाममूचितं पक्षद्वारम् । असम्भोगमलिनतयेहाधिकमन्धकारः । तद् इहव स्थास्यामि ।

(ख्) न मे श्रद्धा, अन्यो गच्छत् ।

(ग) मम बुद्भिरादर्शमण्डलगतेवच्छाया वामेषु दक्षिणा दक्षिणेषु वामा भवति ।

(घ) एकाक्यहं कथं गमिप्यामि ।

1.न्त सवंद' स. पाठः,