पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

 नायकः-- मूर्ख ! धिक् त्वाम् ।

 विद्रपकः - (क) अप्पं खु मे अवरदं । रदणिए! गच्छ, चउप्पहे म पडिवाळेहि । जाव अहं वि अन्भन्तरचउस्साळादो दीवं गह्निअ आअच्छामि । (निष्क्रान्तः ।)

 चेटी- (ख) अय्य ! तह । (परिक्रामति ।)

 गणिका -- (ग: दिद्विआ मम प्पवेसणिमित्तं अवावुदं पक्खदुवाळं । अळं चारित्तभएण । जाव पविसामि । (अभ्यन्तरं प्रविश्य तिष्ठति) ।

 विटः- (विलाक्यात्मगतम्) भवनान्निर्गत्य काचिदियमागच्छति । भवत्वनया वगकं वञ्चयामि । (प्रकाशम् ) सुरभिस्नानधूपानुविद्य इव गन्धः।

 शकारः --- (घ) आम भावे ! शुणामि गन्धं शवणेहिं । अन्धआळपूळिदेहिं णाशापुडहिं शुटु ण पेक्खामि ।

 विटः --- तिष्ठ तिष्ठ । क यास्यसि । (चेटी गृह्णाति ।)

(चेर्टी सभय भूमौ पतिता।)

 (क) अल्पं खलु मेऽपराद्धम् । रदनिके! गच्छ , चतुष्पथे मां प्रतिपालय यावदहमप्यभ्यन्तरचतुश्शालाद् दीपं गृहीत्वागच्छामि ।

 (ख) आर्य तथा ।

 (ग) दिष्टया मम प्रवेशनिमित्तमपावृतं पक्षद्वारम् । अलं चारित्रभयेन । यावत् प्रविशामि।

 (घ) आम भावः शृणोमि गन्धं श्रवणाभ्याम् । अन्धकारपूरिताभ्यां नासापुटाभ्यां सुष्टु न पश्यामि ।