पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

 विटः-अये आर्यचारुदत्तम्य वयस्यो मैत्रेयः खल्वयम् । नेयमपि वसन्तसेना। महाब्राह्मण! अन्यशङ्कया खल्वि- दमस्माभिरनुष्ठितं, न दर्पात् । पश्यतु भवान् ,

 अकामा हियतेऽस्माभिः काचित स्वाधीनयौवना
 सा भ्रष्टा शङ्कया तम्याः प्राप्तेयं शीलवञ्चना ॥ २५ ॥

 शकारः-- (क) अविहा दळिद्दशत्थवाहपुत्तश्श चाळुदत्तवडुअश्श चेडी खु इअं. ण होइ वाञ्चशेणिआ। शाहु, वशञ्चशेणिए ! शाहु । अन्धआलं कळिअ अन्तळा वञ्चिदे भावे । अहके दाव वञ्चिदे कृडकावडशाळए । शावहा दुक्खड कडं ।

 विदूषकः ---- (ग्न मा दावण जुत्तमिदं ।

 विटः-भो महाब्राह्मण ! अयमननयसर्वस्वमञ्जलिः।

 विदूषकः ---- (ग) भादः माद । अणावरदो भवं । अणुणीदो अहं एव्व एत्थ अवरहो।

 (क) अविहा दरिद्रसार्थवाहपुत्रम्य चारुदत्तबटुक्रम्य चटी खल्वियं, न भवति वसन्तसेना । साधु बसन्तेसने ! माधु । अन्धकारं कृत्वान्तग वञ्चितो भावः । अहं तावद् वञ्चितः कूटकापटशीलया ! सर्वथा द्राकरं कृतम् ।

 (ख) मा तावत् । न युक्तमिदम् ।

 (ग) भवतु भवतु । अनपराद्धो भवान् । अनुनीतोऽहमवात्रापराद्धः ।

 १. 'के चापि भंशिद' स्त्र, पाठः,