शकारः - (क) भावे! दिढं खु भाआशि 'तं दळिद्दशत्थवाहपुत्तं चालुदत्तवडुअं ।
विटः-सत्यं भीतोऽस्मि ।
शकारः -- (ख) किश्श भावे! किश्श ।
विटः-- तस्य गुणेभ्यः । पश्यतु भवान् ,
स मद्विधानां प्रणयैः कृशीकृतो
न तस्य कश्चिद् विभवैरमण्डितः ।
निदाघसंशुष्क इव हृदो महान्
नृणां तु तृष्णामपनीय शुष्यति ॥ २६ ॥
महाब्राह्मण ! अयमर्थः सार्थवाहपुत्रस्य न कथयितव्यः।
(निष्क्रान्तो विटः।)
शकारः ---- (ग) माळिश! वडुअ! माळिश! भणेहि तं दळिद्दशत्थवाहपुत्तं चाळुदत्तवडुअं मम वअणेण--ळाअशाळे शण्ठाणे शवट्टेण शीशेण अणुवन्द्य भणादि--- णाडअइथिआ वशञ्चशेणिआ णाम गणिआदारिओं शुवण्णवण्णा दुवेहि
(क) भाव! दृढं खलु बिभेषि तं दरिद्रसार्थवाहपुत्रं चारुदत्तवटुकम् ।
(ख) कस्माद् भाव! कस्माद् ।
(ग) मारिषः वटुक. मारिप! भण तं दरिद्रसार्थवाहपुत्रं चारुदत्तवटुकं मम
वचनेन -राजस्याल: संस्थानकः सपट्टेन शीर्पणानुवन्द्य भणति ---- नाटकस्त्री
वसन्तसेना नाम गणिकादारिका सुवर्णवर्णा द्वाभ्यामावाभ्यां बलात्कारेण
'उद्दिसिअ' इति शेषः।