पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६
चारुदत्ते

 चेटी- (क) अय्य ! रदणिआ खु अहं ।

 विदूषकः - (ख) एहि गच्छामो।

(उभौ परिकामतः ।) .

 नायकः --- भद्रे! कृतं देवकार्थम् ।

 गणिका- (आत्मगतम्) (ग) परिजणत्ति मं सदावेदि। भोदु.रक्खिदह्मि ।

 नायकः ---- मारुताभिलाषी प्रदोषः । तद् गृह्यतां प्रावारकम् ।

 गणिका--(प्रावारकं गृहीत्वा सहर्षम् ) (घ) अणुदासीणं जोवणं से पडवासगन्धो सूएदि ।

 नायकः --- रदनिके ! प्रवेश्यतामभ्यन्तरचतुःशालम् ।

 गणिका- (आत्मगतम् ) (ङ) अभाइणी अहं अब्भन्तरप्पवेसस्स ।

 नायकः--किमिदानीं न प्रविशसि ।


 (क) आर्य! रदनिका खल्वहम् ।

 (ख) एहि गच्छावः ।

 (ग) परिजन इति मां शब्दापयति । भवतु, रक्षितास्मि ।

 (घ) अनुदासीनं यौवनमम्य पटवासगन्धः सूचयति ।

 (ङ) अभागिन्यहमभ्यन्तरप्रवेशस्य ।

 १.व्व ख. पाठः