महन्तेण सुवण्णाळङ्कारेण तुह्माणं गेहं पविट्ठा । सा सुवे णिय्याअइदव्वत्ति ।
गणिका---(क) हं बळक्कारेण णीअमाणत्ति णं भणादि । भोदु , अअं पत्तकाळो । (प्रकाशम् ) अय्य! सरणागदह्मि । नायकः-न भेतव्यं न भेतव्यम् । किं वसन्तसेनैषा ।
विदूषकः- (ख) अविहा वसन्तसेणा । (क इव ?)। (अपवार्य) भो चारुदत्त ! वसन्तसेणा खु इअं, जा भवदा कामदेवाणु- आणप्पहुदि णअणमत्तसंस्थुदा सण्णिहिदमणोभवेण हिअएण उब्वहीअदि । ता पेक्खदु इआं ।
नायकः-- वयस्य ! पश्याम्येनां,
यत्र मे पतितः कामः क्षीणे विभवविस्तरे ।
रोषः कुपुरुषस्येव स्वाङ्गेष्वेवावसीदति ॥ २८ ॥
महता सुवर्णालङ्कारेण युष्माकं गेहं प्रविष्टा । सा श्वो निर्यातयितव्येति ।
(क) हं बलात्कारेण नीयमानेति ननु भणति । भवतु , अयं प्राप्तकालः । आर्य! शरणागतास्मि ।
(ख) अविहा वसन्तसेना । (क इव ? ) । भोः चारुदत्त! वसन्तसेना खल्वियं, या भवता कामदेवानुयानप्रभृति नयनमात्रसंस्तुता सन्निहितमनोभवेन हृदयेनोदुह्यते । तत् पश्यत्विमाम् ।
१, “नि मं भ' क. पाटः. २. 'अ', ३, 'सञ्चये ।' ख, पाठः.