नायकः-अन्वर्थमुपदिशति । मैत्रेय! गृह्यताम् ।
विदूषकः-(क) ण मे सद्धा।
नायकः-- मूर्ख! गृह्यताम् ।
विदृषकः - (ख) जं भवं आणवेदि । आणेदु भोदी।
(गणिका विमुच्यालङ्कारं प्रयच्छति ।)
विदूषकः-(गृहीत्वा) (ग) रदणिए ! गह्न एवं सुवण्णालकारं तुवं । सट्ठीए सत्तमीए अ धारहि । अहं अट्ठमीए अणडाए धारइस्सं ।
चेटी-(विहस्य) (घ) सत्थं वक्खाणअन्तस्स भट्टिपुत्तस्स तदाणिं अवसरो होदि । आणेदु अय्यो। (गृहीत्वा निष्क्रान्ता ।)
नायकः--कोऽत्र भोः! । दीपिका तावत् ।
विदूषकः ---- (ङ) भो ! दीविआ गणिआ विअ णिस्सिणेहा संवुत्ता।
(क) न मे श्रद्धा ।
(ख) यद् भवानाज्ञापयति । आनयतु भवती ।
(ग) रदनिके! गृहाणैतं सुवर्णालङ्कारं त्वम् । षष्ठयां सप्तम्यां च धारय । अहमष्टम्यामनध्याये धारयिष्यामि ।
(घ) शास्त्र व्याचक्षाणस्य भर्तृपुत्रस्य तदानीमवसरो भवति । आनयत्वार्यः ।
(ङ) भोः! दीपिका गणिकेव निःस्नेहा संवृत्ता ।
१. 'हो', २. 'उझा' ख. पाठः.