पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३१
प्रथमोऽङ्कः

 नायकः-कृतं दीपिकया । (विलोक्य) उदितो भगवान् सर्वजनसामान्यप्रदीपश्चन्द्रः । अतः खलु,

 उदयति हि शशाङ्कः क्लिन्नखर्जूरपाण्डु-
  युवतिजनसहायो राजमार्गप्रदीपः ।
 तिमिरनिचयमध्ये रश्मयो यस्य गौरा
  हृतजल इव पङ्के क्षीरधाराः पतन्ति ॥ २९ ॥

भवति! राजमार्गे निष्क्रमणः* क्रियताम् । सखे ! अनुगच्छात्रभवतीम् ।

 विदूषकः-- (क) जं भवं आणबेदि । एदु एदु भोदी ।

(निष्क्रान्ताः सर्वे ।)

प्रथमोऽङ्कः



 (क) यद् भवानाज्ञापयति । एत्वेतु भवती ।


१. 'तः खलु भ', २. 'न्द्रमाः ।, ३. 'गनि', ४. 'हो' ख. पाटः.


  • निष्क्रमणमिति क्लीवत्वं युक्तम् । अथवा 'कोऽसावनुमानः' 'इतिकरणः क्रियते' इति महाभाष्यप्रयोगवत् पुस्त्वं स्यात् ।