गणिका-- (क) हं, तदो तदो।
चेटः- (ख) तदो मए हथिहत्थामिद्दताडिअमाणो दन्तन्तरपरिवत्तमाणो हत्थिहत्थपडिदचरणो तदो हा हा विपाडिदो हा हा हदो त्ति जणवादे संवुत्ते तदो दिण्णकरप्पहारेण परिवत्तिदं हत्थिं करिअ मोइदो सो परिव्वाजो ।
गणिका - (ग) पिअं मे । तदो तदो।
चेटः-(घ) तदो सव्वो जणो भणादि-अहो चंडस्स कम्म त्ति । ण उण कोच्चि किं पि इच्छइ दाउं। तदो अज्जुए! केण वि कुळवुत्तेण उइदाणि आभरणट्ठाणाणि विळोइअ(मुढेणाणिअ वि उणिों ?) अळद्धं पेक्खिों दव्वं उवाळभिअ दिग्धं णिस्ससिअ एत्तओ मे विभवो त्ति करिअ परिजणहत्थे अअं पावरओ पेसिदो।
गणिका--(ङ) कोणुखु अय्यचारुदत्तस्स गुणाणं अणुकरेदि।
(क) हं, ततस्ततः।
(ख) ततो मया हस्तिहस्तामताड्यमानो दन्तान्तरपरिवर्तमानो हस्तिहस्तपतितचरणः ततो हा हा विपाटितो हा हा हत इति जनवादे संवृत्ते ततो दत्तकरप्रहारेण परिवर्तितं हस्तिनं कृत्वा मोचितः स परिबाट ।
(ग) प्रियं मे । ततस्ततः ।
(घ) ततः सर्वो जनो भणति --- अहो चेटस्य कर्मेति । न पुनः कश्चित् किमपीच्छति दातुम् । ततोऽज्जुके! केनापि कुलपुत्रेणोचितान्याभरणस्थानानि विलोक्य (गुट्टेणाणिअविउणिअ!) अलब्धं प्रेक्ष्य दैवमुपालभ्य दीर्घ निःश्वस्यैतावान् मे विभव इति कृत्वा परिजनहस्तेऽयं प्रावारकः प्रेषितः ।
(ङ) कोनुखल्वार्यचारुदत्तस्य गुणाननुकरोति ।
१. 'द', २. 'अ', ३. 'अ दि' ख. पाठः,