पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४७
द्वितीयोऽङ्कः ।

 चेटी-(क) अज्जुए! मम वि कोदूहलं अस्थि । कोणुखु एसो।

 गणिका-- (ख) केण वि साहुणा पुरुसेण होदव्वं ।

 चेटी - (ग) साहु पुच्छीअर्दु दाव ।

 गणिका-(घ) हङ्गे ! एकपुरुसपक्खवादिदा सव्वगुणाणं हन्ति ।

 चेटी--(ङ) भद्द! से णाम तुवं जाणासि ।

 चेटः- (च) ण हु जाणामि।

 गणिका -- (छ) अदिळहु तुए किदै।

 चेटी--(ज) जइ एवं, इह तुए (कोत्ति? किं ति) मन्तिदं।


 (क) अज्जुके ! ममापि कौतूहलमस्ति । कोनुखल्वेषः ।

 (ख) केनापि साधुना पुरुषेण भवितव्यम् ।

 (ग) साधु पृच्छयतां तावत् ।

 (घ) हङ्गे ! एकपुरुषपक्षपातिता सर्वगुणान् हन्ति ।

 (ङ) भद्र ! अस्य नाम त्वं जानासि ।

 (च) न खलु जानामि ।

 (छ) अतिलघु त्वया कृतम् ।

 (ज) यद्येवम् , इह त्वया किमिति मन्त्रितम् ।


 १. 'दु । गणिका-से', २. 'मि । ' क. पाठः. ३. 'दं। चेटः' ख. पाठ:.