(ततः प्रविशति नायको विदूषकश्च ।)
नायकः- वयस्य ! वीणो नामासमुद्रोत्थितं रत्नम् । कुतः,
उत्कण्ठितस्य हृदयानुगता सखीव
सङ्कीर्णदोषरहितो विषयेषु गोष्ठी ।
क्रीडारसेषु मदनव्यसनेषु कान्ता
स्त्रीणां तु कान्तरतिविघ्नकरी सपत्नी ॥१॥
विदूषकः- (क) भो वअस्स! को काळो किदपरिघोसणहाए णिस्सम्पादा राअमग्गा । कुक्कुरा वि ओसुत्ता । वअं णिहं ण ळभामो । अण्णं च दाणि अच्छरी।इमं हवीणं ण रमामि । अहिअदिडत्थाणे विच्छिण्णतन्तिआ होदु ।
नायकः- वयस्य! भावशाबलेन बहुशः खल्वद्य मधुरं गीतम् । न च भवान् रमते।
विदूषकः-- (ख) अदो एव्व एदं अहं ण रमामि । महुरं पि बहु खादिअं अजिण्णं होइ ।
(क) भो वयम्य! कः कालः कृतपरिघोषणतया निःसम्पाता राजमागाः । कुकुरा अप्यवसुप्ताः । वयं निद्रां न लभामहे । अन्यच्चेदानीमाश्चर्यम् । इमां हतवीणां न रमे । अधिकदृढस्थाने विच्छिन्नतन्त्रीका भवतु ।
(ख) अत एवैतामहं न रमे । मधुरमपि बहु ग्वादितमजीर्णं भवति ।
१. 'णा खलु ना', २. 'ता सुरतेषु' ख. पाठः. ३. 'ए', ४. 'द छ', ... 'दं' क. पाठः. ६.. 'ट्ठाणे' ख. पाठः, ७. 'द ण' क. पाटः.