नायकः--सर्वथा सुव्यक्तं गीतम् । कुतः,
रक्तं च तारमधुरं च समं स्फुटं च भावार्पितं च
न च साभिनयप्रयोगम् ।
किं वा प्रशस्य विविधैर्बहु तत्वदुक्त्वा'
भियन्तरं यदि भवेद् युवतीति विद्यम् ॥ २ ॥
विदूषकः –(क) कामं पसंसेदु भवं । मम खु दाब गा अन्तो मणुस्सो इत्थिआ वि पठन्ती उभअं आदरं ण देदि । गाअन्तो दाव मणुस्सो रत्तस्मणावेद्विदो विअ पुरोहिड्रो दिखें ण सोहइ । इत्थिआ वि पठन्ती छिण्णणासिआ विअ धेणुआ अदोविछुवा होइ ।
नायकः-सखे ! उपारूढोऽर्धरात्रः । स्थिरतिमिरा राजमार्गाःनिस्सम्पातपुरुषत्वात् प्रसुतेवोज्जयनी प्रतिभाति। कुतः,
असौ हि दचा तिमिरावकाश
मस्तं भृतो ह्यष्टमपक्षचन्द्रः।
तोयावगाढस्य वनद्विपस्य
विषाणकोटीव निमज्जमाना ॥ ३ ॥
(क) कामं प्रशंसतु भवान् । मम खछ तावद् गायन् मनुष्यः स्त्र्यपि पठ न्युभयमादरं न ददाति । गायंस्तावन्मनुष्यो रक्तसुमनोवेष्टित इव पुरोहितो दृढं न शोभते । स्त्रयपि पठन्ती छिन्ननासिकेव धेनुरतिविरूपा भवति ।
१ ‘था व्य’ क. पाठः२. 'डूि ', ३. ‘दिअत्र’ . ४. ‘र, ५. ‘ब्रजचष्ट' ख.पाठ:,
'तत्तदुकैः' इति स्यात् ।