एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५२
चारुदत्ते
चेटः----(क) सुहौदेसु पादेसु भूमीए पळोट्ठिदव्वं । उदअं विणासेहि । अहव आणेहि । पक्खाळइस्सं । (नाट्येन विदूषकस्य पादौ प्रक्षालयति।)
विदूषकः ---(ख) ण केवळं दासीएपुत्तेण पादा धोदा, मुहं वि धोदं।
नायकः--वयस्य !
इयं हि निद्रा नयनावलम्बिनी
ललाटदेशादुपसर्पतीव माम् ।
अदृश्यमाना चपला जरेव या
मनुष्यवीर्य परिभूय वर्धते ॥४॥
मैत्रेय ! सुप्यताम् ।
(निष्क्रान्तश्चेटः ।)
(प्रविश्याभरणसमुद्गहस्ता)
चेटी--(ग) अय्यमेत्तेअ! उठेहि उठेहि ।
(क) सुधौतयोः पादयोभूम्यां प्रलोठितव्यम् । उदकं विनाशय । अथवानय । प्रक्षालयिप्यामि ।
(ख) न केवलं दास्याःपुत्रेण पादौ धौतौ, मुखमपि धौतम् ।
(ग) आर्यमैत्रेय! उत्तिष्ठोत्तिष्ठ ।
१. 'नान्तल' ख. पाठ:.