पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५३
तृतीयोऽङ्कः ।

 विदूषकः - (क) भोदि! किं एदं ।

 चेटी.- (ख) इअं सुवण्णभण्डं सट्ठीए सत्तमीए (परिवेहामि?) अट्ठमी खु अज्ज ।

 नायकः- इदं तद् वसन्तसेनायाः स्वकम् ।

 चेटी- (ग) आम । भणादु भणादु भट्टिदारओ गह्नदु त्ति ।

 नायकः--मैत्रेय ! गृह्यताम् ।

 विदूषकः-- (घ) किंणिमित्तं अअं अलङ्कारो अब्भन्तरचउस्साळं ण प्पवेसीअदि।

 नायकः -- मूर्ख! बाह्यजनधारितमलङ्कारं गृहजनो न द्रक्ष्यति ।

 विदूषकः ---(ङ) का गई । आणेहि गामि चोरेहिं गह्निअमाणं ।

(चेटी दत्त्वा निष्क्रान्ता ।)

 विदूषकः-- (च) भो! किंणिमित्तं सो पावरओ तस्स गणिआपरिआरअस्स दिण्णो।


 (क) भवति! किमेतत् ।

 (ख) इदं सुवर्णभाण्डं षष्ठयां सप्तम्यां (परिवेट्ठामि ? ) अष्टमी खल्वद्य ।

 (ग) आम । भणतु भणतु भर्तृदारकः गृह्यतामिति ।

 (घ) किन्निमित्तमयमलङ्कारोऽभ्यन्तरचतुःशालं न प्रवेश्यते ।

 (ङ) का गतिः । आनय गृह्णामि चोरैर्गृह्यमाणम् ।

 (च) भोः! किन्निमित्तं स प्रावारकस्तस्मै गणिकापरिचारकाय दत्तः ।


१. 'दु ' क. पाठः. २. 'रस्स' ख. पाठः.