पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५४
चारुदत्ते

 नायकः-सानुक्रोशतया।

 विदूषकः --- (क) इह वि साणुकोसदा ।

 नायकः-वयस्य ! मा मैवम् ।

 विदूषकः ---- (ख) अहं भरिदगद्दभो विअ भूमीए पळोट्ठामि।

 नायकः-निद्रा मां बाधते । तूष्णीं भव ।

 विदूषकः- (ग) सअंदु भवं सुहप्पबोहाअ । जाव अहं वि सुविस्सं ।

(द्वावपि स्वपितः ।)

(ततः प्रविशति सज्जलकः।)

 सज्जलकः- एष भोः!

 कृत्वा शरीरपरिणाहसुखप्रवेशं
  शिक्षाबलेन च बलेन च कर्ममार्गम् ।
 गच्छामि भूमिपरिसर्पणघृष्टपार्यो
  निर्मुच्यमान इव जीर्णतनुर्भुजङ्गः ॥ ५ ॥

भोः! वृक्षवाटिकापक्षद्वारे सन्धि छित्वा प्रविष्टोऽस्मि । यावदिदानी चतुःशालमुपसामि । (सनिर्वेदं विचिन्त्य) भोः!


 (क) इहापि सानुक्रोशता ।

 (ख) अहं भरितगर्दभ इव भूम्यां प्रलुठामि ।

 (ग) शेतां भवान् सुखप्रबोधाय । यावदहमपि स्वप्स्यामि ।


 १. 'इ' क, पाठः.