कामं नीचमिदं वदन्तु विबुधाः सुप्तेषु यद्वर्तते
विश्वस्तेषु हि वञ्चनापरिभवः शौर्य न कार्कश्यता।
स्वाधीना वचनीयतापि तु बरं बद्धो न सेवाञ्जलि-
मार्गश्चैष नरेन्द्रसौप्तिकवधे पूर्व कृतो द्रौणिना ॥६॥
(विचिन्त्य)
.
लुब्धोऽर्थवान् साधुजनावमानी
वणिक् स्ववृत्तावतिकर्कशश्च ।
यस्तस्य गेहं यदि नाम लप्स्ये
भवामि दुःखोपहतो न चित्ते ॥ ७ ॥
यहा तहा भवतु । किं वा न कारयति मन्मथः । यावदारभे कर्म । भोः!
देशः को नु जलावसेकशिथिलश्छेदादशब्दो भवेद्
भित्तीनां क नु दर्शितान्तरसुखः सन्धिः करालो भवेत् ।
क्षारक्षीणतया चलेष्टककृशं हर्म्य व जीर्ण भवेत्
कुत्र स्त्रीजनदर्शनं च न भवेत् स्वन्तश्च यत्नो भवेत्॥८॥
(परिक्रम्य) इयं वास्तुविभागक्रिया । सोपस्नेहतया गृहविशिष्ट इवायं भवनविन्यासः । इह तावत् प्रवेशावकाशं करिष्ये । भोः! कीदृश इदानीं सन्धिच्छेदः कर्तव्यः स्यात् ।
१. 'न्य अपि च लु' क. पाठः.
- कार्कश्यता कर्कशत्वम् । आलस्यशब्दवत् काकश्यशब्दो धर्मिपरी द्रष्टव्यः ।