पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५६
चारुदत्ते

 सिंहाक्रान्तं पूर्णचन्द्रं झषास्यं
  चन्द्रार्ध वा व्याघ्रवकं त्रिकोणम् ।
 सन्धिच्छेदः पीठिका वा गजास्य-
  मस्मत्पक्ष्या विस्मितास्ते कथं स्युः ॥९॥

भवतु सिंहाक्रान्तमेवच्छेदयिष्ये।

 विदूषकः-- (क) भोः ! जागत्ति खु भवं, णहि ।

 नायकः-किमर्थम् ।

 विदूषकः- (ख) अहं खु दाव कत्तब्बकरितीकिदसङ्केदो विअ सकिअसमणओ णि ण ळभामि । वामं खु मे अक्खि फन्देदि । चोरो सन्धि छिन्ददी वि पेक्खामि । जइ ईदिसी अवस्था अत्थाणं , जादीए दरिदो एव्व होमि ।

 नायकः- मूर्ख ! धिक् त्वाम् । दारिद्र्यमभिलषसि ।

 सज्जलक:-अथ केनेदानी सन्धिच्छेदमार्गः सूचैयितव्यः स्यात् । नन्विदं दिवा ब्रह्मसूत्रं रात्रौ कर्मसूत्रं भविष्यति


 (क) भोः! जागर्ति खलु भवान् , नहि ।

 (ख) अहं खलु तावत् कर्तव्यकरिक्तीकृतसङ्केत इव शाक्यश्रमणको निद्रां न लभे । वाम खलु मेऽक्षि स्पन्दते । चोरः सन्धि छिनत्तीव पश्यामि । यदीदृश्यवस्थार्थानां, जात्या दरिद्र एव भवामि ।


 १. 'रीकि', २. 'अ हि पे' क. पाठ:. ३. 'त्र', ४. 'वति' ख. पाटः.